________________
१६४ न्यार्यावनिश्चयविवरणे
[२११३८ वासनाहेतुकत्वं नीलादिज्ञानवत् । तदपि स्खलत्येव भेदज्ञानेन बाधनादिति चेत् ; नीलादिज्ञानमपि किन्न स्खलति निराकारवस्तुज्ञानेन बाधनात् ? तदेव नास्ति, साकारस्यैव वस्तुनो दर्शनादिति चेत्, इतरदपि न भवेत्, सान्वयस्यैव दर्शनात् । व्यतिरेकोऽपि पिण्डशिवकादिरूपेण प्रतीयत इति चेत्; निराकारमपि प्रतीयत एव सन्नीलं सत्पीतमिति । न हि नीलेतरयोरन्यतरदेव सत् । इतरत्र तज्ज्ञानाभावप्रसङ्गात् । न नीलादेरन्यत् सत्त्वमिति चेत्, सत्त्वादन्यन्न नीलाद्यपि । कथं तत्प्रत्यय इति चेत् ? इतरप्रत्ययः कथम् ! नीलादावेव स इति चेत्, तत्प्रत्ययोऽपि सत्त्व एवेति किन्न स्यात् ? अतद्रूपे तदनुपपत्तेरिति चेत् ; कथमभेदप्रत्ययः ? तत्रैव तदारोपादिति चेत्, नीलादिप्रययोऽपि संत्त्व एव, तत्रैव तदारोपादिति किन्न स्यात् ? न कदाचिदपि नीलादिविकलं सत्त्वमुपलभ्यत इति
चेत्, क पुनरभेदविकलस्य भेदस्योपलब्धिः ? विकल्पसंहारदशायामिति चेत; तत्रैव सत्त्वस्यापि । १० “सदेव सौम्येदमग्र आसीत्" [छान्दो०६।२।१] इत्यादि श्रुतेः । वाङ्मात्रमेवेदनैवं कदाचिदप्यनुभव
इति समानमेकान्तभेदेऽपि । ततो यथा नीलादिज्ञानस्य निराकारज्ञानेनाबाधनं केवलस्य तद्विषयस्याप्रतीतेः, एवं भेदज्ञानेनापि इतरज्ञानस्य, इत्युपपन्नमुक्तम्-'अपृथग्' इत्यादि । किं पुनरेवमभेद एव न भेदोऽपि तज्ज्ञानस्यापि भावात् ? कथमेवं तयोरेकत्र भावः ? कालविकल्पेनेति चेत्, न; वस्तुनि
तदभावात् । न ह्येकमेव कदाचिन्नीलमन्यान्यदिति चेत्; मा भूद्विकल्पः समुच्चयस्तु स्यात् । स एव १५ कथमेकत्र विरुद्धयोरिति चेत् ? कथं विभ्रमेतरयोः ? न चेदमसिद्धम्-"नौयानादिषु" इत्यादिना
निरूपितत्वात् । कथं वा विकल्पेतरयोः ? अन्यथा विकल्पाभावेन सर्वव्यवहारोच्छेदादिति निरूपणात् । ततो यथा विभ्रमेतरविकल्पेतरादीनामेकत्र समुच्चयस्तथा वस्तुस्वाभाव्यादेव सूक्ष्मेतराभेदेतराणामपि । एतदेवाह
देशकालान्तरव्याप्तिः स्वभावः क्षणभङ्गिनाम् । इति । २० . 'अणूनाम्' इत्यनुवृत्तम् । ततस्तेषां देशान्तरव्याप्तिः भिन्नदेशकलापाविप्वम्भावः
स्वभावः ततो देशदैयम्, क्षणभङ्गिनां कालान्तरव्याप्तिर्भिन्नकालपर्यायाभेदः स्वभावस्ततश्च कालदैर्घ्यमिति भावः । देशदैर्घ्यस्य निरूपितस्याप्युपादानं तद्वत् कालदैर्घ्यस्याप्यविरोधदर्शनार्थम् । अत्रैवोपपत्त्यन्तरमाह
____ सम्प्रत्यस्तमिताशेषनियमा हि प्रतीतयः ॥१३८॥ इति । २५ सम्यक् प्रत्यस्तमिताः प्रलीना अशेषनियमाः स्थूलमेव सूक्ष्ममेव नित्यमेवानित्यमेव
वेत्यादय एकान्ता यासु तास्तथोक्ताः । काः पुनस्ताः ? प्रतोतयः प्रत्यक्षादिबुद्धयो हि यस्मात् , तस्माद् 'देश' इत्यादि । तथा हि
नैकान्तनियता काचित् प्रतीतिरनुभूयते ।
अनेकान्ततिरस्कारं यद्बलाद्विदधीमहि ॥१४७६॥ १ सज्ज्ञाना-आ०, ब०, प०१२ स्वत एव-आ०, ब, प० ! ३ इति 'श्रु-आ० ब०, प० । ४-दा तदन्यदि-आ०, ब०,प०। ५ न्यायवि० श्लो० १४८ । ६ समुच्चय इति शेषः।