________________
१६५
२।१३९]
२ अनुमानप्रस्तावः प्रतीतं प्रविलुम्पेम यद्यन्यस्य प्रकल्पनात् । लभेमहि कथं तत्त्वं किमप्येवं तदर्थिनः ॥१४७७॥ ततः प्रतीतिसामर्थ्याद्देशकालान्तरान्वयी ।
स्वभावो भावतो भावो भावज्ञैरभ्युपेयताम् ॥१४७८॥ न चेदमत्र चोद्यम्-"तथाविधस्य भावस्य सर्वात्मना प्रत्यक्षत एव प्रतिपत्तेर्न तत्र प्रमाणा- ५ न्तरं शब्दान्तरं वा प्रवृत्तिमत् ।" [ ] इति; कस्मात् ? अर्वाग्दर्शिभिरसकलपर्यायस्यैव 'ततस्तस्य प्रतिपत्तेः । एवं सति स एव गृहीतश्चागृहीतश्च भवेदिति चेत् ; नायं दोषः, तथाप्यनेकान्तस्यानुषद्रवात् । एकान्तवादस्य तु भवत्येव समुपद्रवः । तत्र सर्वात्मना ग्रहणमेव नेतरदिति चेत्, न; भाववच्छक्तावषि तत्प्रसङ्गादव्यतिरेकात् । तथा च किं तत्रोपदेशाद्यपेक्षया ? निर्णय इति चेत्, न; प्रत्यक्षस्यैव निर्णयरूपस्योपगमात् । व्यतिरिक्तैव ततः शक्तिः तस्याः सामग्रीरूपत्वादिति १० चेत्; व्यतिरिक्ता कथं तस्य ? तत्कार्ये व्यापारादिति चेत्, न; अशक्तस्य कार्याभावात् । शक्त एवासौ सामग्र्येति चेत्, न; परस्पराश्रयात्-‘सामग्र्या शक्तस्य कार्यम्, तद्व्यापाराच्च सा तस्य शक्तिः' इति । तन्न तत्र व्यापारात् तस्यास्तच्छक्तित्वम् । तदुपकारादिति चेत्, न; अशक्तस्तदसम्भवात् व्योमकुसुमवत् । स्वतोऽपि शक्त एव भाव इति चेत् ; तस्य तर्हि प्रत्यक्षत एवं निर्णयात् कथं 'शृङ्गवेरदर्शने संशयः शृङ्गवेरं विषमेवेति विपर्ययो वा ? तस्मादगृहीतैव शक्तिर्भावग्रहेऽपीति कथमेकान्तवादस्यानु. १५ पद्रवः ? तस्मादक्रमवत् क्रमेणापि अनेकान्तात्मक एव भावः, तथा प्रत्यभिज्ञानात् । ननु च प्रत्यभिज्ञानं प्रत्यक्षविषय एव प्रवृत्तिमन्नान्यत्र अतिप्रसङ्गात् । न च प्रत्यक्षस्य परापरपर्यायेषु प्रवृत्तिर्यतस्तेषां कथञ्चिदभेदप्रतिपत्त्या तस्यानेकान्तविषयत्वात् प्रत्यभिज्ञानं तत्र स्यादिति चेत्; अत्राह
अग्रहः क्षणभङ्गोऽपि [ग्रहणे किमनिश्चयः] । इति ।
न केवलमक्षणिकत्वमपि तु क्षणिकत्वमप्यविद्यमानग्रहणमेव । न हि परापराविज्ञाने तस्यापि २० ग्रहणं तदपेक्षत्वात् । स्वभाव एव भावस्य क्षणभङ्गः तत्किं तद्ग्रहणे पूर्वापरग्रहणेनेति चेत् ? सिद्धं तर्हि तद्वदभेदस्यापि ग्रहणं तस्यापि कथञ्चित् तत्स्वभावत्वाविशेषात् । किमिदानी प्रत्यभिज्ञानेन प्रत्यक्षादेव तस्य प्रतीतेरिति चेत् ; न ; तस्यैव परापरपर्यायविशिष्टतया प्रत्यभिज्ञानेनाधिगमात् । अपि च, भवतोऽपि किमनुमानेन प्रत्यक्षादेव क्षणभङ्गस्यापि
ग्रहणात् । निश्चय इति चेत्, न; निश्चयस्यापि नीलादिवत् प्रत्यक्षादेव भावात् । एदेवाह- २५ ग्रहणे किमनिश्चय' - इति । ग्रहणे क्षणभङ्गस्य कस्मादनिश्चयो निश्चय एव स्यात् । न प्रत्यक्षमित्येव निर्णयहेतुर्बुद्धिपाटवादी सत्येव तस्य तत्त्वात्, क्षणभङ्गे च तदभावादिति चेत्, नीलादेरपि न निर्णयः स्यात्, निरंशे खण्डशः पाटवादेरसम्भवात् । एवं च कथमनुमानं धर्मिहेत्वादीनामसिद्धेः । ततो विशिष्ट निर्णयार्थत्वमेवोत्तरम् । तच्च प्रत्यभिज्ञानेऽपि समानम् । नेदमत्रोत्तरम् , समारोपनिरासार्थत्वस्य तत्त्वादिति चेत्: अत्राह
१ प्रत्यक्षात् । २ ततोऽपि आ०, ब०, प० । ३ एव ततो नि-आ०, ब०, प० । ४ आर्द्रकं शुण्ठीति यावत् । ५ -परापरिज्ञा-आ०,ब०, प० । ६ क्षणिकत्वग्रहणे । ७ -ञ्चित्स्वभा-आ०, ब०, प० ।
३०