________________
न्यायविनिश्चयविवरण [२।१३९-१४० आकृतिभ्रमवद्यदद्विषमज्ञविलोकितम् ॥१३९॥ इति ।
आकृतिविपरीताकारः तत्रैव भ्रमोपपत्तेः तस्य भ्रम आरोपः स विद्यतेऽस्मिन्निति तद्वत् ग्रहणं निरंशक्षणिकवेदनं 'ग्रहणे' इत्यस्य विभक्तिपरिणामेन योजनात्, किं नैव 'किम्' इत्यस्यानु
वृत्तेः । न हि सर्वात्मना तस्य स्वविषयनिश्चयनिबन्धनत्वे तद्वत्त्वमुषपन्नं विरोधात् । ततो न आरोप५ स्याभावात् तन्निरासार्थत्वमनुमानस्येति मन्यते । यद्वदित्यादि तद्वत्त्वे निदर्शनम् । तस्याप्युपन्यासः
परं प्रत्यभावज्ञापनार्थः । न ह्यज्ञैः तन्निश्चयविकलैरवलोकितं विषमपि तद्विपर्ययभ्रमवदुपपन्नं यतो निदर्शनं स्यात्, तदवलोकनस्यापि तन्निर्णयजननस्वभावत्वेन तद्वत्त्वानुपपत्तेः । ततः प्रागुक्तमेवोत्तरम्', प्रत्यभिज्ञानवत् । अपि च, सत्यपि दर्शने यदि निश्चयाद् व्यवहारः, स एव प्रमाणमस्तु किं दर्शनेन ?
स एव तदभावे कुत इति चेत् ? तदपि कुतः ? विषयविषयिसन्निपातादिति चेत्; तत एव १० सोऽप्यस्तु । तदेवाह
न चर्तेऽर्थविदोऽर्थोऽर्थात केवलो व्यवसीयते । इति ।
किमित्यनुवृत्तम्, अर्थः पुरोवर्तिनीलादिः किं कस्मात् न च नैव व्यवसीयते व्यवसीयत एव । कथम् ? अर्थविदो निर्विकल्पदृष्टेः ऋते विना । कुतो व्यवसीयते ? अर्थात् विषयि
सन्निहितात् स्वलक्षणात् । निश्चयो नामाभिलापवान् प्रत्ययः, तद्वत्त्वं च तस्य न विषयगतेनाभिलापेन १५ तत्र तदभावात्, अन्यथा सङ्केतवैफल्यम्-स्वत एव वाचकानुविद्धस्य सर्वस्यापि वस्तुनः प्रतिपत्तेः ।
स्मरणोपनीतेन तु तद्वत्त्वे भवितव्यमेवार्थविदा पूर्वम् , अन्यथा स्मरणासम्भवादिति । अत्रोत्तरम्'केवलः" इति । तात्पर्यमत्र-यद्यभिलापसम्बन्धेनैवार्थो व्यवसीयते युक्तं तया भवितव्यमिति, न चैवम् , तत्सम्बन्धविकलस्य केवलस्यैव तस्य व्यवसायात् । तद्वैकल्ये व्यवसायत्वं कथमिति चेत् ?
अभिलापानुस्मरणस्य कथम् ? तत्सम्बन्धादेव तदपीति चेत्; तत्रापि तदभिलापस्मरणान्तरमङ्गीकर्तव्यम् , २० तदुपनीतेनैवाभिलापेन तस्यापि तद्वत्त्वात्, पुनस्तत्राप्यपरं तदिति कथं नानवस्थानम् ? भवतु
तन्निर्विकल्पकमेव तत्सम्बन्धाभावादिति चेत्; न तर्हि तद्विषयस्यान्यत्र योजनं स्वलक्षणस्यावा'चकत्वादशक्यत्वाचंति विकल्पविकलं जगत्प्राप्तम् , अशब्दयोजनस्य तस्यानभ्युपगमात् । तदुक्तम्
"सहशार्थाभिलापादिस्मृति प्यभिलापिनी ।
तावतैवाविकल्पत्वे स्वल्पा धीः स्याद्विकल्पिका॥"[सिद्धिवि० प्र०परि० ] इति ।
ततस्तत्सम्बन्धाभावेऽपि व्यवसायात्मकमेव तद्वक्तव्यम् । अस्तु, तद्योग्यतया तदुपगमादिति चेत्; किमेवं नेन्द्रियज्ञानम् ? तस्य असाधारणविषयत्वेनातद्योग्यत्वादिति चेत्, कुतस्तद्विषयत्वम् ? 'अतद्योग्यत्वात् । तदपि कुतः ? तद्विषयत्वादिति चेत्, परस्पराश्रयस्य सिद्धः । स्वतस्तद्विषयत्वेनावभासनात्, अत एवोक्तम्-"प्रत्यक्षं कल्पनापोडं प्रत्यक्षेणैव सिद्धयति ।" [प्र० वा० २।१२३]
१-त्तर प्रत्यभिज्ञानेऽपि समानं नेदमत्रोत्तरम्- समारोपनिरासार्थत्वस्य प्रत्यभिज्ञानान्यवदपि च आ०, ब०, प० । २ केवलं व्य-आ०, ब०, प०। ३ "विकल्पो नामसंश्रयः" इति वचनात् । स्वाभिधानविशेषापेक्षा एव निश्चयैनिश्चीयन्ते इति वचनाच्च ।"-ता० टि०। ४ अर्थविदा । ५ अभिलापानुस्मरणम् । ६ विकल्पस्य । ७ विकल्पकमिष्टमिति शेषः। ८ शब्दसम्बन्धायोग्यत्वात् ।