________________
२।१४०-४१] २ अनुमानप्रस्तावः
१६७ इति चेत्, न; "व्यवसायात्मकं ज्ञानं प्रत्यक्ष स्वत एव न" [ ] इत्यपि वचनात्, स्वतश्च तस्यैवावभासनात् । लोकस्यापि तत्रैव सम्मतेः, नेतरत्र, अन्यथा "तयोरेक्यं व्यवस्यति" [प्र० वा० २।१३३ ] इत्यस्य विरोधात् । कथं पुनः अर्थाद्वयवसायः ? निर्विकल्पात्तदनुपपत्तेरिति चेत् ? तद्विदोऽपि कथं तदविशेषात् । वासनात एव व्यवसायः, तद्बोधनद्वारेण तु तद्विदस्तद्धेतुत्वमिति चेत्, अर्थस्यापि तथैव तदस्तु । 'वासनाकार्यस्य कथमर्थविषयत्वम् ?' इत्यपि ५ न चोद्यम् ; अर्थस्यापि तद्धेतुत्वात् । कथं पुनर्वासनाबोधतः पाग अतद्धेतोस्तस्य पश्चात्तद्धेतुत्वम् उपयोगाविशेषात् ? ततोऽर्थाभावेप्यक्षज्ञानेन भवितव्यम् , अहेतोरनपेक्षणात् । तदुक्तम्
"यः प्रागजनको बुद्धरुपयोगाविशेषतः।
स पश्चादपि तेन स्यादर्थापायेऽपि नेत्रघो।" [ ] इति । चेत्; कथमेवं तद्विदो व्यवसायहेतुत्वमपि । शक्यं हि वक्तुम्
या प्रागजनिका दृष्टिर्व्यवसायस्य सा कथम् ।
पश्चादप्यविशेषात् स्यात् तदपायेऽपि तन्मतिः ॥ १४७९ ॥ इति ।
वासनाबोधस्य तु पश्चात्तद्विशेषत्वमर्थे ऽषि समानम् । कथं पुनरदृष्टस्य तद्बोधकत्वमिति चेत् ? दर्शनहेतुत्वं कथम् ? तदपि दृष्टस्यैवेति चेत् ; न; अपूर्वदर्शनाभावप्रसङ्गात् । तथास्वभाव्यं तद्बोधकत्वेऽपि । तन्न व्यवसायार्थमपि दर्शनकल्पनमुपपन्नम् ।
__ भवतु व्यवहारार्थमेव तद्, अभ्यासदशायां दर्शनादेव व्यवसायनिरपेक्षात व्यवहार- - प्रवृत्तेरिति चेत् ; अत्राह
भावान्तरसमारोपेऽभाविताकारगोचराः ॥ १४० ॥
समक्षसंविदोऽर्थानां सन्निधिं नातिशेरते ॥ इति । __विषयेषु सम्मुखमक्षमिन्द्रियं समक्षं तस्य संविदः तत्कार्या बुद्धयः अर्थानां रूपादीनां २० सन्निधिम् इन्द्रियसम्प्रयोगं नातिशेरते न ततो विशिष्यन्ते, तत इव ताभ्योऽपि न व्यवहार इत्यर्थः । कुतस्तथेति चेत् ? अनिश्चितस्वभावाधिष्ठानत्वादेव । अत एवोक्तम्-'अभाविताकारगोचराः' इति । हेतुषदं चेदम् । यत एवं ततस्तं नातिशेरत इति । निश्चयविरहेऽपि बोधात्मकत्वेन तासां तदतिशयोपपत्तेः कुतो न व्यवहारनिबन्धनत्वमिति चेत् ? उत्तरम्--भावान्तरस्य तद्विषयादन्यस्य भावस्य समारोपस्तत्रैवाध्यारोपस्तस्मिन्निति । न हि बोधरूपत्वेऽपि तदन्तरसमारोपे तन्निबन्धनत्वं क्षणभङ्गा- २५ दावपि तत्प्रसङ्ग नानुमानवैफल्यापत्तेः । मा भूत् ततस्तत्र व्यवहारो नीलादौ तु स्यात्तदभावादिति चेत् ; न; दर्शनादेव तत्रापि तद्भावात्, क्षणक्षयादावप्यन्यतस्तदनभ्युपगमात् । उपपन्नः क्षणे क्षणान्तरस्य तत आरोपः सादृश्यातिशयात्, नीलादौ तु कथं पीतादेः विपर्ययादिति चेत् ? मा भूत् पीतादेः, नीलादेरेवापरस्य स्यात् तद्भावात् । तथा च कथं तत्परिहारेण दर्शनविषय एव व्यवहारो
१ निर्विकल्पकबोधादपि । २ अर्थस्य । ३ उद्धृतोऽयम्-अष्टसह० पृ० १२२ । ४ तुलना"यः प्रागजनको बुद्धरुपयोगाविशेषतः । स पश्चादपि तेनाक्षबोधापायेऽपि कल्पना ॥ इति प्रतिपादनात् ।" -अष्टसह० पृ० १२२। ५ समानमिति शेषः। ६ सादृश्यातिशयसभावात् । ७ नीलान्तरपरिहारेण ।