________________
१६८ .
न्यायविनिश्चयविवरणे
[२।१४१-१४२ यतस्तन्नियमो लोकतः प्रसिद्धोऽवकल्प्येत ? नीलादिर्नीलादेरप्यत्यन्तविलक्षण एव ततो न तदारोपस्तत्रेति चेत्; क्षणे क्षणान्तरस्यापि' स न स्यात्तदविशेषात् ? तथा च नित्यनिर्मुक्तं जगद्भवेत् संसारबीजस्य आरोपात्मनः सत्त्वदृष्टेरभावात् । एवञ्च निर्विषयमिदम्--"उत्खातमूलां कुरुत सत्वदृष्टिं
ममक्षवः।" [ प्र० वा० १।२५९ ] इति । क्षणक्षयासम्भवी दर्शनस्य नीलादावस्ति विशेषस्ततो ५ न तत्र तदारोपमुपरचयतीति चेत्, स तर्हि कोऽपरः स्यादन्यत्र व्यवसायादिति तदात्मिकैव दृष्टिः । अन्यथा तस्यास्तद्विषयस्य चानवकल्पनात्, इत्यावेदयन्नाह--
___अणवः क्षणिकास्मानः किल स्पष्टावभासिनः ॥ १४१ ॥ इति ।
भेदपर्यन्तप्राप्ता नीलादय एव अणवः त एव प्रतिसमयं निरन्वयविनश्वराः क्षणिकात्मानः स्पष्टावभासिनो निर्विकल्पकदर्शनवेद्याः 'किल' इत्यत्रारुचियोतनं च । तच्च तथाविधस्य दर्शनस्य १० तत्प्रतिभासिनां च तेषामप्यप्रतिवेदनात् । न ह्यनुपक्रान्तसंवेदनव्यापारं तत्त्वम् इत्थम्भावेन कथ्यमानमपि तथ्यं भवति मिथ्यावादविरहापत्तेः । परमरुचिविषयं दर्शयति--
अतत्फलपरावृत्ताकारस्मृतिहेतवः । इति ।
न विद्यते तद्विवक्षितं जलाहरणादिफलं येषां ते अतत्फलाः पटादयस्तेभ्यः परावृत्तार्थाः धटादिव्यपदेशभाजः परमाणवः तेषाम् । आकारः कल्पितस्थूलनोलादिः तस्य स्मृतिर्घटोऽयं घटोऽ१५ यमित्यादिनिर्णयः परप्रसिद्धया तस्य स्मृतित्वात्, तस्याः हेतवो यथोक्ताः परमाणवः । 'किल'
इत्यत्रापि योजनादश्रद्धेयत्वं बोद्धव्यम् । न हि विशेषरूपस्यानुभवगोचरस्यापि सामान्याकारस्मरणहेतुत्वमुपपन्नम्। अनीलस्यापि नीलनिर्णयकारणत्वप्रसङ्गात् । नीलवासनाप्रबोधस्यापि अनीलादेवोपपत्तेः विशेषात् सामान्यवासनाप्रबोधवत् । तथा च यथा न वस्तुनि सामान्याकारस्तन्निर्णयात् तथा
नीलाकारोऽपि मा भूत् । 'ततस्तदाकारो दर्शनादेव तस्य भावात्' इत्यपि नोत्तरम् ; उक्तोत्तरत्वात्, २० निरंशस्य तस्यासंवेदनादिति । ततो निराकारमेव तत्त्वं प्राप्तमिति मन्यते । ततो यथा तन्निर्णयात् तत् तथा साधारणरूपमपीति तस्यैव प्रत्यक्षवेद्यत्वम् । एतदेवाह
स्थूलस्पष्टविकल्पार्थाः स्वयमिन्द्रियगोचराः ॥१४२॥ इति ।
स्थूलाश्च ते क्रमाक्रमाभ्यां नानावयवसाधारणत्वात् स्पष्टाश्च विशदप्रतिभासत्वात् स्थूलस्पष्टास्ते च ते विकल्पार्थाश्च घटादयः परप्रसिद्धया तेषां विकल्पज्ञानविषयत्वात् । ते किम् ? इन्द्रियं तज्ज्ञानं तस्य गोचरा विषया न विरुध्यन्ते 'न विरुध्यते' इति वक्ष्यमाणस्य वचनपरिणामेनान्वाकृष्य सम्बन्धात् । कथं ते तद्गोचराः ? स्वयम् आत्मनैव न दर्शनैकत्वाध्यवसायेन, प्रथमतस्तद्विषयस्यैव ज्ञानस्यानुभवात् । न च तस्यारोपितगोचरत्वम् ; स्पष्टत्वात्, वस्तुसन्निधावेव भावात्, प्रतिविकल्पानिवर्त्यत्वाच्च । अभावादेव प्रतिविकल्पस्य तदनिवर्त्यत्वं न तु स्वयं वस्तुविषयत्वादिति
१-पि न आ०, ब०, प० । २-रोपात्मकस-प० । ३-यः कुत एव श्रा०,ब०, प०।४ 'च' इति सम्पातादायातम् । ५-काराद-आ०, ब०, प०।६ तदाकारस्तथा आ०, ब०, प०। ७ "निरंशक्षणिकविकल्प"-ता०टि०।