________________
१६९
२।१४३-४४]
२ अनुमानप्रस्तावः चेत्; कुतस्तदभावः ? कारणाभावादिति चेत् ; न; दर्शनस्यैव स्वलक्षणविषयस्य तत्त्वात् । अभ्यासषाटवादेर्नीलादिवत् क्षणभङ्गादावप्यविशेषात् । न च सादृश्यातिशयेन तस्य प्रतिरोधः; सत्यपि तस्मिन् मृगतृष्णिकादौ तन्निर्णयस्य तेन जलाधारोपनिवर्तनस्य च दर्शनात् । तन्न तस्य मानसत्वम् , ऐन्द्रियत्वस्यैवोपपत्तेः । तथा च यत्सिद्धं तदाह
समानपरिणामात्मशब्दसङ्केतहेतवः । इति ।
समानपरिणामात्मनः सदृशपरिणामरूपस्य शब्दस्य सङ्केतो वाचकत्वेन निवेशनं तस्य हेतवः प्रतिपादिता एवार्थाः न क्षणक्षीणाः. परमाणवः । एतदुक्तं भवति-न शब्दार्थयोरसाधारणयोर्वाच्यवाचकभावः सङ्केतासम्भवात्, अपि तु समानपरिणामस्वभावयोः । तयोरपि नापतिपन्नयोः सङ्केतः; अतिप्रसङ्गात् ? न च असाधारणदृष्ट्या तत्प्रतिपत्तिः, नापि तज्जन्मना विकल्पेन; ततस्दुत्पत्तेनिषेधात् । तत इन्द्रियबुद्धिरेव तद्विषया वक्तव्या शाब्दव्यवहारस्यान्यथानुषपत्तेः । सैव तद्वयवसाया- १० त्मिका बुद्धिर्न ततोऽन्येति । साम्प्रतं तस्यास्ततोऽन्यत्वेऽपि तत्स्वसंवेदनवदिन्द्रियप्रत्यक्षस्यापि व्यवसायात्मकत्वं दर्शयन्नाह
स्वभावव्यवसायेषु निश्चयानां स्वतो गतेः ॥१४३॥
नाशस्यैकार्थरूपस्य प्रतीतिर्ने विरुद्धयते । इति ।
नाशस्य क्षणभङ्गस्य प्रतीतिनिर्णयात्मेन्द्रियबुद्धिः इतरत्र परस्याविवादात् न विरुद्धयते १५ न प्रमाणेन बाध्यते । कीदृशस्य ? एकार्थरूपस्य एको भागसहायविकलोऽर्थो नीलादिस्तद्रूपस्य तत्स्वभावस्य । विशेषणमप्येतत्साधनं द्रष्टव्यं तद्रूषत्वात् । तदयमत्र प्रयोगः-प्रत्यक्षनिर्णयो नाशो नीलादेव्यतिरेकात् तत्स्वरूपवत् । न हि निर्णये तदव्यतिरिक्तस्यानिर्णयः, तद्वदने अवेदनस्यापि प्रसङ्गात् । ततो यथेदमुच्यते
"एकस्यार्थस्वभावस्य प्रत्यक्षस्य सतः स्वयम् ।।
कोऽन्यो न दृष्टो भागः स्याद्यः प्रमाणैः परीक्ष्यते ॥" [प्र०वा० ३।४२] इति । तथेदमपि वक्तव्यम् -
एकस्यार्थस्वभावस्य निर्णीतस्य सतः स्वयम् । ___कोऽन्योऽनिर्णीतभागो यन्निश्चयः क्रियतां परैः ॥१४८०॥ इति ।
नीलादेरपि न प्रत्यक्षान्निर्णयः तज्जन्मनो निश्चयान्तरादेव तद्भावात्, ततः साध्यविकल- २५ मुदाहरणमिति चेत्, निश्चयस्य तर्हि कुतो निश्चयः तदनिश्चये नीलादेरनिश्चयात् तदवित्ताववित्तिवत् ? निश्चयान्तरात् तस्यापि निश्चये ऽनवस्थोपनिषातान्न नामापि निश्चयस्य सिध्येत् । विदितत्वादेव तस्य निश्चयो न निश्चितत्वादिति चेत्; अस्तु नामैवम् , तदेव तु वेदनं कुतः ? स्वसंवेदनादेव प्रत्यक्षादिति चेत्, न तस्यानिश्चयरूपस्य निश्चयात्मनि विरोधात्, अनेकान्तस्य चानभ्युपगमात् । निश्चयात्मैव तदषीति चेत्, सिद्धं तर्हि तद्वदेव नीलादिप्रत्यक्षमपि तदात्मकमिति न तत्स्वरूप- ३० वदिति निदर्शनस्य साध्यवैकल्यम् । तदेवोक्तम्--'निश्चयानाम्' इत्यादिना । निश्चयानां
१ निश्चयस्य । २ निश्चयात्मकमिति । २२