________________
१७० न्यायविनिश्चयविवरणे
[२।१४४-४७ नीलादिविकल्पानां स्वतो न निश्चयान्तरापेक्षया गतेः निर्णीतेः । तां दृष्टान्तत्वेनाश्रित्य नाशस्यैकार्थरूपस्य प्रतीतिर्न विरुध्यते इति । कदा पुनस्तेषां गतिनिीतिरिति चेत् ? उत्तरम्-‘स्वभाव' इत्यादि । स्वभावाः संचे( सच्चे )तनादयो विकल्पधर्मास्ते च ते व्यवसायाश्च नाव्यवसाया
स्तेषां तेषु विरोधात्, स्वभावव्यवसायास्तेषु सत्सु । न हि सकलतत्स्वभावानां व्यवसायात्मकत्व५ नियमे निर्णीतेरन्या स्वतस्तेषां गतिः सम्भवति । ततो न बहिरन्तर्वा प्रमाणान्तरकल्पनमर्थवत्,
प्रत्यक्षादेव समीहितसिद्धेरिति मन्यते । भवतोऽपि स्वपरनिर्णयात्मनो ज्ञानस्य स्वत एव सञ्चेतनादिवत् प्रतिक्षणपरिणामादेरपि निर्णयात् किं तत्र प्रमाणान्तरेणेति चेत् ? अत्राह
व्यामोहशवलाकारवेदनानां विचित्रता ॥१४४॥ इति ।
व्यामोहयति विकलयति चित्तमिति व्यामोहः आवरणात्मको विशेषस्तेन शबलो मेचक १० आकारः स्वभावो येषां तानि च तानि वेदनानि च ज्ञानानि तेषां विचित्रता विविधां चितं प्रति
भासमात्मनि त्रायमाणानां भावः, विविधप्रतिभासत्वं भवति इति शेषः । एतदुक्तं भवति-भवत्येव सूक्ष्माणामपि ज्ञानाकाराणां निर्णयो यदि कर्मसामर्थ्यात् असकलनिर्णयपरिणामो न भवेत् । अस्ति चायमिति । एतदेवाह
साकल्येन प्रकाशस्य विरोधः सम्प्रतीयते । इति ।
साकल्येन स्वभावसामस्त्येन प्रकाशो ज्ञानाकाराणां तस्य विरोधः कर्मसामर्थ्येन प्रतिरोधः तद्वयवस्थापकात् प्रमाणात् वक्ष्यमाणात् सम्प्रतीयत इति । ततो नास्माकं तत्र प्रमाणान्तरस्यावृत्तिः, अप्रतिविदितस्यापि तस्य विषयस्य भावात् । न चैवमेकान्तवादे, तत्र प्रतिपन्नस्य तत्सामस्त्येनैव प्रतिपत्तेः, अन्यथा तद्वादविरोधात् । नन्वेवमगृहीताकारसम्भवे कुतस्तदस्तित्वमित्यत्राह
सम्भावितान्यरूपाणां समानपरिणामिनाम् ॥१४॥
प्रत्यक्षाणां परोक्षास्मा प्रमाणान्तरगोचरः । इति ।
सम्भावितं सम्भवज्ञानावलम्बनम् अन्यत प्रतीतादर्थान्तरं रूपं येषां तेषां समानपरिणामिनां सदृशपर्यायवतां ज्ञानानामर्थानां च तेष्वपि तत्सम्भवनाभावात्। तेषां परोक्षात्मा अप्रत्यक्षविषयः स्वभावः सूक्ष्मपरिणामादिः प्रमाणान्तरस्यानुमानादेर्गोचरः ततोऽस्तीति भावः । कीदृशानां तेषां स तद्गोचरः ? प्रत्यक्षाणां सच्चेतनादिना स्थूलनीलादिना च स्पष्टज्ञानविषयाणाम् । कुतः पुनरिदमवगन्तव्यं प्रमाणान्तरगोचर आत्मा प्रत्यक्षाणामिति ? प्रत्यक्षस्य तत्र तद्विषये च प्रमाणान्तरस्यावृत्तेः, उभयविषयस्य च कस्यचिदभावादिति चेत् अत्राह
प्रत्ययः परमात्मानमपि च प्रतिभासयेत् ॥१४६॥ सत्यं परिस्फुटं येन तत्र प्रामाण्यमश्नुते । इति ।
१ स्पष्टा चेतना-ता० । २ -नियमनिर्णी-आ०, ब०, प० । ३ विविधं चित्रं प्र-आ०, ब०, प०।-४ तत्संभवात्तेषां आ०, ब०, प० ।