________________
१०
न्यायविनिश्चयविवरणे
[२।३ नाम किमपि तस्य साधनापेक्षत्वात् , साधनस्य च त्रैरूप्याभावेऽनुपपत्तेः । कल्पितं त्रैरूप्यमिति चेत् ; द्वैरूप्यमपि तादृशं किन्न स्यात् ? यतः साधनस्यापि साध्यत्वन्न भवेत् । तन्न तव्यवच्छेदाय रूपेणैवेत्यवधारणमुपपन्नम् ।
___ अप्रसिद्धमप्युक्तमेव साध्यम् , नार्थावगतमिति कश्चित् ; तन्न ; अभीष्टस्य साध्यत्वात् , ५ उक्तमेव यद्यभीष्टं तदेव साध्यम् । अथार्थावगतम् तदेव नापरम् । तदाह-अभिप्रेतम् इति ।
___ सत्यमिदम् , मयाऽप्यभीष्टस्यैव साध्यत्वोपगमादिति सौगतः ; तन्न ; क्षणिकत्वस्येष्टस्यापि तेनासाधनात् । तदेव शब्दादौ कृतकत्वादिना साध्यमनित्यशब्देनापि तस्यैवाभिधानादिति चेत् ; चक्षुरादावात्मार्थत्वमेव संहतत्वादिना किमेवं न साध्यम् पारार्थ्यशब्देनापि तस्यैवाभिधानात् । दृष्टान्ते
तस्याभावेन हेतोस्तदन्वयस्याग्रहणादिति चेत् ; क पुनः क्षणिकत्वेनापि तस्य तद्रहणम् ? प्रदीपा१० दाविति चेत् ; कुत एतत् ? प्रत्यक्षत एव तत्र क्षणिकत्वस्य प्रतिपत्तेरिति चेत् ; न ; शब्दवत्तत्रापि
तंतस्तत्प्रतिषत्तेर्विवादात् । अनुमानत एव तत्प्रतिपत्तौ तदन्यत्र तदन्वयग्रहणं लिङ्गस्याङ्गीकर्तव्यम् । तत्रापि तत एव तत्प्रतिपत्तौ तदन्यत्र तद्रहणं तस्याङ्गीकर्तव्यमित्यनवस्थापत्तिः। यत्पुनरेतत्-प्रदीषादेरक्षणिकत्वे परापरस्तैलादिव्यापारो व्यर्थः । न हि तस्य तदुत्पत्तिरर्थः, प्रथमतद्व्यापारादेव तद्भावात् ।
नाप्युपकारः, तस्याप्यभिन्नस्य करणायोगात् । भेदे सम्बन्धाभावात् तस्येति व्यपदेशानुपपत्तेः । तेनापि १५ तदन्तरकरणेऽनवस्थानुषङ्गात् । ततोपरापर एव तत्प्रभवः प्रदीपादिरिति ; तदपि न शोभनम् ;
ततोऽप्यप्रमाणात् तत्प्रतिपत्तेरयोगात् । प्रमाणत्वञ्च न प्रत्यक्षत्वेन ; तत्रैव क्षणिकविषये विवादात् , अन्यथा शब्देऽपि तत एव तत्प्रतिपत्तेः किमनुमानेन ? अस्ति हि तत्राप्येवं परामर्श:-यदि शब्दोऽप्यक्षणिको व्यर्थस्तत्रापरापरस्ताल्वादिव्यापारः, तदुत्पत्तौ तदुषकारे च पूर्ववत्तस्यानुपयोगात् । ततोऽ
परापर एव शब्दोऽपि तत्प्रभवः ततः क्षणिक एवेति । तत्र सतोऽपि ततस्तदभिव्यक्तिवादिनां न २० तत्प्रतिपत्तिः, एकत्वारोपानिवृत्तेरिति चेत् ; प्रदीपादावपि भवेत् , तदभिव्यक्तिवादिनामपि साङ्ख्यानां
भावात् , तेषु तदारोपस्याप्यनिवृत्तेः । तन्न प्रत्यक्षत्वेन तत्प्रामाण्यम् । नाप्यनुमानत्वेन ; तल्लिङ्गस्यापि क्षणिकत्वेनान्यत्रान्वयग्रहणे तत्क्षणिकत्वस्याप्यपरापरतत्कारणव्यापारादनुमानतया प्रमाणात्प्रतिपत्तौ अनवस्थापत्तेः । तन्न बहिस्तेनाप्यन्वयग्रहणं यतस्तत्साध्यम् ।
__ भवतु तद्यनित्यत्वमेव साध्यम् , तस्य प्रदीपादावपि प्राक्-प्रध्वंसाभावमध्यवर्तिभावात्मनः २५ प्रत्यक्षत एव प्रतिपत्तेः, न क्षणिकत्वं तस्यातिसूक्ष्मसमयपर्यवसायिभावस्वभावस्य तत्र ततोऽप्रतिपत्तेरिति
चेत् ; किमेवं साङ्ख्यस्यापि पारार्थ्यमेव साध्यं न भवेत् ? तस्यापि शयनादौ प्रसिद्धत्वात् । आत्मार्थत्वस्याभीष्टस्यासाधने स्वपक्षसिद्धरभावात् , तदुषक्रम्य तद्विपरीतसाधने साधनस्य विरुद्धत्वदोषात् । तद्विपरीतस्यैवोपक्रम्य साधने निर्विवादत्वेन साधनवैफल्यात् । तदुक्तम्
१ "अभीष,मिति पदमत्रापि सम्बन्धनीयम् ।"-ता. टि. । २क्षणिकत्वमेव । ३"चक्षुरादिः परार्थः संहतत्वात् शयनासनादिवत्-इदमनुमानं सांख्यमतप्रसिद्ध बौद्धं प्रति आत्मास्तित्वसाधकम् ।" --ता० टि० । ४ "शयनासनादौ"-ता० टि०। ५ "कृतकत्वादिहेतोः"-ता० टि० । ६ प्रत्यक्षतः क्षणिकत्वप्रतिपत्ते विवादसद्भावात् । ७“उक्तप्रकारात् परामर्शात्"-ता० टि० । ८ क्षणिकत्वस्य तआ०, ब०, प० ।