________________
२३ ]
किञ्च,
२ अनुमानप्रस्तावः
सानुमानात् समारोषादशक्तादिसमुद्भवे । सहकारिसहायात्किं नित्यात्कार्यभिदा न यत् ॥ १२३१ ॥ “अपेक्ष्येत परः कार्यम्" इत्यादि वदता त्वया । सहकारिप्रतीक्षत्वं नित्यस्य प्रतिषिध्यते ।। १२३२ ॥ तस्मान्नास्ति समारोषप्रध्वंसस्तद्व्यवच्छिदिः ।
मिथ्यात्वज्ञापनं सा चेन्न तत्त्वज्ञे तदत्ययात् ॥ १२३३ ॥
९
"
न हि तत्त्वज्ञापनमतत्त्वज्ञानात्सम्भवति, तत्त्वज्ञानादेव मरीचिकाविषयाज्जलारोपे तज्ज्ञापनस्यो - पलम्भात्, तद्वदनुमानादपि तत्त्वज्ञानादेव तज्ज्ञापनमिति साध्यमेव क्षणक्षयादिकम् । न चेदमधिगतिमात्रेण प्रसिद्धौ उपपन्नम् ; क्षणभङ्गादेरपि प्रसिद्धिप्रसङ्गात् । प्रसिद्धस्य च "स्वरूपेणैव निर्देश्यः” [ प्र० वा० ४।७८ ] इत्यत्र स्वरूपग्रहणेन साध्यत्वप्रत्याख्यानात् । तस्मान्निर्णीतिरेव प्रसिद्धिः । १० तदभावेऽधिगतमात्रस्यापि साध्यत्वोपपत्तेः । कथमेवमनेकान्तस्य साध्यत्वं बहिरन्तश्च प्रत्यक्षतः प्रसिद्धश्वादिति चेत् ? सत्यमिदं यदि तत्र विपरीतारोपेणानुपहतिः । निर्णयात्मनि प्रत्यक्षे से एव कथं तस्य तद्विरोधित्वादिति चेत् ? न दृष्टत्वात् । दृश्यते हि दुरागमाभ्यासविपर्यासितचेतसां तद्विषये ऽषि बहिर्भावादौ तदारोपः – कस्यचिदसन्निति अन्यस्य बोध इति अपरस्योपप्लव इति । न च दृष्टस्यापह्नवो दर्शनादेव तत्प्रतिषेधात् । ततस्तदारोषविकला निर्णीतिरेव प्रसिद्धिः । अत एव प्रशब्दोपादानम्, १५. प्रकर्षेण तद्वैकल्यलक्षणेन सिद्धं निश्चितं प्रसिद्धमिति, प्रसिद्ध्यतिशयप्रतिपत्त्यर्थम् । यद्येवं प्रत्यक्षमपि कथमनेकान्तप्रतिपत्तये परं प्रत्युपदश्यते—
“जात्यन्तरं तु पश्यामस्ततोऽनेकान्तसाधनम् " [ सिद्धिवि० परि० २ ] इति । न हि तस्मादारोर्षंवृतः तत्प्रतिपत्तिः, आरोपस्य तेन तदविरोधित्वेनानिवर्त्तनात्, तन्निवर्तनरूपत्वाच्च तत्प्रतिपत्तेः । अनारोपवतस्तु तदुपदर्शनमकिञ्चित्करमविवादादिति चेत्; नायं नियमो - २० Sपरस्तत्त्वमवबोधयितव्य इति । अयन्तु नियमः - प्रानिकाः प्रतिपादयितव्या इति । ते च वादिवचनात् प्रत्यक्षव्यापारं परामृशन्तोऽनेकान्तविषयमेव प्रतियन्ति, प्रतिपुरुषमेव तद्व्यापारस्यानुभवोपारूढत्वात् । न हि तेषां विपरीताभिनिवेशो यतः प्रसिद्ध मप्यनुभवमपलपेयुः तत्कारणाभावात् । तदागमाभ्यास एव तेषामपि तत्कारणमिति चेत्; न; तस्यापि मन्दप्रज्ञ एव तत्त्वान्न महाप्राज्ञे । न ह्यपथ्याहार इत्येव दुर्बलवद् बलवतोऽपि ततः प्रत्यवायः । प्रज्ञातिशयवन्तश्च प्राश्निकास्ततो न तेषामनुभवव्यापारपरिपन्थी २५ कुतश्चिदप्यभिनिवेश इति यथानुभवमेव तत्त्वमवबुद्ध्यन्ते । तदनुमत्या प्रतिवाद्यपि यदि तथैवावबुद्धयत सुतरां फलवत् तदुपदर्शनम् । यदि नावबुद्धयंत तथाऽपि न दोषः ; प्राश्निकप्रत्यायनमात्रेणैव वादिपक्षव्यवस्थितेः । अप्रसिद्धस्य साध्यत्वे तादृशस्य साधनस्यापि तत्प्रसङ्ग इति चेत् किमेवं सति विहन्येत ? साधनत्वमेव, साध्यस्य सतस्तत्त्वानुपपत्तेरित्ति चेत् ; न साध्यान्तरापेक्षया तस्याप्यव्याघातात् । कथमेकस्य रूपद्वयमिति चेत् ? कथं रूपत्रयम् ? तदपि नेति चेत्; नेदानीं साध्यं ३० २ विपरीतारोपः । ३ शून्यवादिनः । ४ विज्ञानवादिनः ।
;
१- मतत्त्वज्ञापना - आ, ब०, प० ।
५ तत्त्वोपप्लववादिनः । ६ - रोपतस्त-आ०, ब०, प० । ७ प्रत्यपायः आ०, ब०, प० ।