________________
न्यायविनिश्चयविवरणे
[२।३ तत्रानाकार एवेयं प्रतिकर्मस्थितियथा । प्रकाशनियमो हेतोरित्यत्रैव निरूपितम् ।। १२२५ ॥ तन्न सारूप्यतो मानं प्रत्यक्षमिति युक्तिमत् ।
निर्णयात्मतयैवास्य प्रमाणत्वव्यवस्थितेः ॥ १२२६ ॥ तदाह-तथा तेन परिस्फुटेन निर्णयप्रकारेण प्रामाण्यमश्नुते व्याप्नोति प्रत्यक्षमिति ततो युक्त प्रत्यक्षवत् स्वविषयनिर्णयरूपमनुमानं प्रमाणत्वादिति साधनात् साध्यविज्ञानमित्युक्तम् ।
तत्र साधनं बहुवक्तव्यतया पैश्वान्निरूपयिष्यन्निदानी साध्यं निरूपयन्नाह--
साध्यं शक्यमभिप्रेतमप्रसिद्ध [ ततोऽपरम् ] । इति ।
ननु साधनार्ह साध्यं तच्च शक्यादिरूपमेव । न ह्यशक्यस्य तदर्हत्वम् अशक्यत्वविरोधात् । १० नाप्यनभिप्रेतस्य प्रसिद्धस्य वा, अतिप्रसङ्गात् । ततः साध्यलक्षणस्य व्युत्पत्तिवशादेव प्रतिपत्तेः किं
तत्प्रणयनेनेति चेत् ? तन्न ; तथा तत्प्रतिपत्तेर्गरीयस्त्वात् , व्युत्पत्तेर्बहुधाभावेन सम्मोहसम्भवाच्च । प्रसिद्धादन्यद् अप्रसिद्धम् तदेव साध्यम् , न प्रसिद्धम् तत्र साधनवैफल्यात् , प्रसिद्धिरेव हि फलं साधनस्य सा च प्रागेव सिद्धति । का पुनरियं प्रसिद्धिः ? निश्चयशून्यमधिगतिमात्रमिति चेत् ;
तन्न ; क्षणिकत्वादेरसाध्यत्वप्रसङ्गात् । अधिगतत्वेन प्रसिद्धित्वादिष्टिरेवेयमिति चेत् ; किमिदानी साध्यम् ? १५ न यत्राधिगतिरिति चेत् ; न ; स्वभावलिङ्गविषये सर्वत्र तद्भावात् । कार्यलिङ्गविषये नेति चेत् ; न ;
तत्रापि व्याप्तिज्ञानेन तद्भावात् , अन्यथा अनुमानस्यैवानुत्पत्तेः । ततो न किञ्चिदनधिगतमस्ति यत्साध्यं सम्भवेदिति तल्लक्षणवर्णनं सौगतस्य प्रयासमात्रमाकाशचर्वणवत् । यदि चाधिगतमसाध्यम् , किमिदानी तत्रानुमानेन ? समारोपव्यवच्छेद इति चेत् ; सोऽपि प्रध्वंसनम् , मिथ्यात्वज्ञापनं वा भवेत् ? न ताव• प्रध्वंसनम् ; तस्य स्वरसभावित्वेनानुमानकार्यत्वानुपपत्तेः । अथ न साक्षात्तस्य तत्कार्यत्वम् , अपि त्वनु२० मानसहितात् समारोपादुत्तरस्य तस्यासमर्थस्य ततोऽप्यसमर्थतरस्य तस्मादप्यत्यन्तासमर्थस्योत्पत्तौ ततः परस्यानुत्पत्तेः, तस्य च स्वरसभङ्गुरत्वेन विनाशात् पारम्पर्येणैवेति ; तन्न ; यस्मात्
समर्थकरणे शक्तिः समारोपस्य चेत्ततः । उत्तरोऽपि समारोपः समर्थः किन्न जायते ? ॥ १२२७ ॥ अनुमानेन तच्छक्तेविनाशादिति चेदसत् । निर्हेतुकत्वात्तस्यापि तत्कार्यत्वाव्यवस्थितेः ॥ १२२८ ॥ स्वभावस्तादृशस्तस्य सानुमानात्ततो यतः । असमर्थादिरूपः स्यादारोप इति चेदयम् ॥ १२२९ ॥ स्वहेतोस्तस्य चेद् व्यर्थमनुमानं प्रसज्यते । अनुमानाच्च नेवासौ समकालतया स्थितेः ॥ १२३० ॥
१ न्यायवि० श्लो० ३३। २ 'अल्पवक्तव्यमादौ वक्तव्यमिति न्यायात् ।''-ता० टिः । ३ मिथ्याज्ञानं आ०, ब०, प०। ४ शक्तिविनाशस्यापि । ५प्र० वा० ३२७९ ।