________________
२२ ]
२ अनुमानप्रस्तावः
क्षणक्षयादावध्यक्ष
विपर्यासादिकार्यवत् ।
तस्याप्येवं प्रमाणत्वं तत्प्रवृत्तिक्षमं भवेत् ॥ १२१४ ॥ ओरोपेण सताऽप्येवं तत्प्रामाण्यानुपद्रवात् । तद्व्यवच्छेदयं तत्ते प्रयासायैव केवलम् ॥ १२१५ ॥ अनुमानं प्रमाणत्वं तद्व्यवच्छेदिनोऽपि तत् । कथं नामावतिष्ठेत यत्प्रमाणद्वयं भवेत् ॥ १२१६ ॥ नीलादावेव तन्मानं यदि तत्रैव निर्णयात् । प्रागेवाधिगमे तस्मान्निर्णयः किमपेक्ष्यते ॥ १२१७ ॥ फलं तदेव तस्यापि निष्पन्नं तच्च दर्शनात् ।
निष्पन्नेऽपि व्यपेक्षायां व्यपेक्षा नावतिष्ठते ॥ १२१८ ॥ परतोऽधिगमे तस्मात् दर्शनात्स पृथग् भवेत् ।
ततश्चेदं विरुध्येत तेनानर्थान्तरं फलम् ॥ १२१९ ॥ इति । तत्साधकतमत्वञ्च निर्णयस्यैव युज्यते । सत्येव तस्मिंस्तद्भावान्न सारूप्याद्विषादिवत् ॥ १२२० ॥ “तस्मात्प्रमेयाधिगतेः साधनं मेयरूपता ।"
विदुषा न तु वक्तव्या वक्तव्या निर्णयात्मता ।। १२२१ ॥ निर्णयात्मनि चाध्यक्षे. पृथगेवार्थभासनात् ।
उपचारात् परिच्छित्तिः कथं तत्रोपकल्प्यताम् ॥ १२२२ ॥ इति ।
प्रसिद्धानुभवं हीदं यन्नीलादि बहिर्गतम् । प्रत्यक्षे प्रतिभातीति सर्वप्राणभृतामपि ॥ १२२३॥ अर्थसारूप्यवादोऽयं यदि तत्रोपकल्प्यते । प्रत्यक्षेण स बाध्येत पावकानुष्णवादवत् ॥ १२२४॥
१ आरोप्येण आ०, ब०, प० । २ - यत्कस्ते आ०, आ०, ब०, प० । ५ " प्रतिभासमानत्वकरणात् " - ता०
७
शब्दार्थः कथ्यते - परम् इत्यस्यानन्तरम् 'अपि च' इत्येतद् द्रष्टव्यम् । तदयमर्थः-. प्रत्यक्षम् उक्तरीत्या निर्णयरूपं स्पष्टं ज्ञानम्, तत् आत्मानं स्वरूपं प्रतिभासयेत् प्रतिभा- २० समानं कुर्वीत । न केवलं तमेवापि तु परमपि च बहिरर्थमपि च प्रतिभासयेत् । कथम् ? सस्यम् अवितथम्, तत्त्वञ्च मुख्यतयैव तत्र तँत्करणात् । उपचारेण तत्करणे हि वितथमेव तद् भवेत् । एवमपि सत्यं तत्करणं परस्मिन्नेव वक्तव्यम् नात्मनि विवादाभावादिति चेत्; न; दृष्टान्तार्थत्वात् तद्वचनस्य । यथा आत्मनि तत्करणं सत्यमेवं परस्मिन्नपीति । केनैवम् ? इत्याह- परिस्फुटम् अनुभवारूढं येन ।
ब०, प० । ३ प्र० वा० २।३०६ । ४ - थत्वञ्च मु टि० । ६ चेन्नैवमि -आ०, ब०, प० ।
१०
१५
२५