________________
[२।२
न्यायविनिश्चयविवरणे स्वत एव तत्राव्यभिचारप्रतिपत्तौ प्रथमज्ञानेऽपि स्यात् । तस्य क्वचिद्व्यभिचारोऽपि दृश्यत इति चेत् ; न ; अर्थक्रियाज्ञानस्यापि स्वप्ने तदर्शनात् । स्वप्नतज्ज्ञानविलक्षणमेव जाग्रत्तज्ज्ञानमिति चेत् ; प्रथमज्ञानमपि व्यभिचारिज्ञानविलक्षणमेव किन्न स्यात् ? लोकस्य तथा विवेकाभावादिति चेत् : न ; इतरत्रापि तुल्यत्वात् । ५ अपि च, तत एवानुमानस्यापि किन्न प्रामाण्यम् ? सर्वत्र तद्विषये तदभावादिति चेत् ; प्रत्यक्षस्यापि न स्यात् , तद्विषयेऽपि सर्वत्र तदभावात् । विद्यमानतज्ज्ञानप्रत्यक्षसाधादितरतत्प्रामाण्यपरिकल्पनम् अनुमानप्रामाण्यमपि परिपुष्णाति विशेषाभावात् । अथ प्रत्यक्षमविचारितप्रामाण्यमेव परिगृह्यते, अन्यथा व्यवहारविलोपात् ; किमिदानीमनुमानेन भवतोऽपराद्धम् यतस्तदपि तथाविधमेव न परिगृह्यत ? किं तेन परिगृहीतेनापि परमार्थपरिज्ञानस्य तादृशादनुपपत्तेरिति चेत् ; प्रत्यक्षेणापि किं ततोऽपि तदनुषपत्तेरविशेषात् ? तस्मादनुपपन्नमेव प्रत्यक्षस्य विधानं प्रतिषेधश्चानुमानस्य । तदाहतदत्यये तनोति विस्तारयति प्रामाण्यमिति तत् प्रामाण्यहेतुर्विशेषः तस्य अत्ययः तस्मिन् कचित् पृथिव्यादौ यत् एकस्य प्रत्यक्षप्रामाण्यस्य विधानम् यश्च कचित् परलोकादावेकस्यानुमानप्रामाण्यस्य प्रतिषेधः तयोः विरोधात् इति ।
मो भूत्प्रत्यक्षमपि प्रमाणम् , उपप्लवस्यैव सर्वत्रोषगमादिति चेत् ; न ; तद्वादस्य प्रतिक्षिप्त१५ त्वात् । ततः प्रत्यक्षं प्रमाणयता प्रमाणयितव्यमनुमानमपि, तदव्यभिचारिलिङ्गप्रभवत्वस्योत्तरत्र समर्थनादित्युपपन्नमिदम्-स्वार्थपरिच्छेदरूपमनुमानम् प्रमाणत्वात् प्रत्यक्षवदिति ।
प्रत्यक्षस्यापि न वस्तुतः स्वार्थपरिच्छेदः तत्काले तदर्थस्य कारणत्वेन व्यतिक्रमात् , अपि तु तदाकारस्वरूपपरिच्छेदस्य तत्रारोपादौपचारिक एव, तथानुमानस्यापि तत्परिच्छेदसाधने सिद्धसाधनमिति चेत् ; अत्राह
प्रत्यक्षं परमात्मानमपि च प्रतिभासयेत् ।
सत्यं परिस्फुटं येन तथा प्रामाण्यमश्नुते ॥ २॥ इति । तात्पर्यमत्र कीदृशं तत्प्रत्यक्षं यदाकारपरिच्छेदस्तद्विषये समारोप्येत ? निर्विकल्पं निरंशपरमाणुविषयमिति चेत् ; न ; तस्य क्वचिदप्यपरिज्ञानात् , संहृतविकल्पकालेऽपि नानाभागसाधारणस्य
नीलादिवेदनस्यैवानुभवात् , अन्यथा तत्कल्पनायां न क्वचिद्वस्तुनि व्यवस्था स्यात् । परिज्ञानेऽपि तस्य २५ यदि विषयादुत्पत्तेः प्रामाण्यं चक्षुरादावपि स्यात् । उत्पत्तिविशेषात् सारूप्यलक्षणादिति चेत् ; न;
तथाऽप्यकिञ्चित्करादौ प्रसङ्गात् । अकिञ्चित्करं हि विषदर्शनमज्ञस्य संशयादीनामन्यतमस्यापि तेनाकरणात् , तस्यापि विषयसारूप्यात् प्रामाण्ये ततोऽपि नः प्रवृत्तिः स्यात् । तथा च
वस्तुशक्त्यवबोधस्य दर्शनादेव सम्भवात् । वैद्यकाद्युपदेशोऽयं तदर्थो व्यर्थतां व्रजेत् ॥ १२१३ ॥
२०
१-तज्ज्ञानात्प्र-आ०, ब०, ५०। २ तत्त्वोपप्लववादी प्राह । ३-त तनि-आ०, ब०, प० । ४ संवृतवि-आ०, ब०, प०। ५निर्विकल्पस्य ।