________________
२१]
२ अनुमान प्रस्तावः
चारस्य दुरवबोधत्वात् । तन्नाव्यभिचारि किञ्चिल्लिङ्गमिति कथं तत्प्रभवत्वेन प्रामाण्यमनुमानस्येति ?
1
"
तेषामपि तदप्रामाण्ये कुतश्चैतन्यभूतोपादनत्व पर लोकनिषेधादेः प्रतिपत्तिः ? प्रत्यक्षादिति किमर्थमिदानीं शास्त्रम् ? विप्रतिपत्तौ तन्निवर्तनार्थमिति चेत् ; न ; प्रत्यक्षविषये तस्या एवाभावात् पृथिव्यादिवत् । भावेऽपि न तँत् स्वत एव तस्या निवर्तकम् अप्रमाणकत्वात् । निवर्तकस्य प्रमाणस्योपदर्शनादिति चेत् ; न ; प्रत्यक्षस्यातन्निवर्तकत्वात् । अनुमानस्येति चेत्; किं तदनुमानम् ? भूतो - ५ पादानं चैतन्यं तद्विकारे विकारित्वात् यत् यद्विकारे विकारि तत्तदुपादानं दृष्टम् यथा मृद्विकारविकारिशिवकादि मृदुपादानम्, भूतविकारविकारि च चैतन्यम्, तस्मात्तदुपादानमिति । तथा, न तँत् परलोक भूतोपादानत्वात् शरीरखँदिति । इति चेत् ; कथं पुनः सामान्येनानुमानस्य निषेधे द्विशेषयोरनयोरपि सम्भवो विशेषस्य सामान्याभावेन विरुद्धत्वात् । एतदेवाह - तदत्यये । क्वचित् चैतन्ये । यत् एकस्थ भूतोपादानत्वस्य विधानम् तत्परमनुमानं यश्चैकस्य परलोकित्वस्य प्रतिषेधः तत्परमनुमानं तयो - १० विरोधादिति । अथेष्यत एव हीदृशमनुमानं परलोकाद्यनुमानस्यैव परपरिकल्पितस्य निषेधादिति चेत्, कुतस्तस्यैव निषेधः ? तत्साधनस्यैवाव्यभिचारनिर्णयाभावेनाभावादिति चेत् ; न ; तदभावस्यान्यत्राध्यविशेषात् । नचाविशेषे कस्यचिदिच्छया विधानं प्रतिषेधश्च परस्योपपन्नः । तदाह - तदत्यये । तस्य साधनस्यात्यये क्वचित् । इष्टसाध्ये यत् एकस्य अनुमानस्य विधानम् इच्छया यश्चापरस्य प्रतिषेधः तयोः विरोधात् । भवतु तर्हि परप्रसिद्धादेवानुमानादभिमतसिद्धिरिति चेत् ; कः १५ पुनः परो नाम ? काय एव देवदत्तादेरिति चेत्; न; तस्याचेतनत्वेनानुमानस्य तत्प्रसिद्धत्वायोगात् । तद्गतो बुद्धिवित इति चेत्; तस्यापि न प्रत्यक्षात्प्रतिपत्तिः, संशयाभावप्रसङ्गात् । न हि तत्प्रतिपन्ने संशयो रूपादिवत् । अस्ति च 'साधुरयं धूर्तो वा, पण्डितोऽयं मूर्खो वा' इति । नापि व्यापारादिलिङ्गजादनुमानात्, तस्यापि स्वयमसिद्धेः । ततोऽपि परप्रसिद्धादेव तत्प्रतिपत्तिरिति चेत्; कः पुनरत्र परो यस्यातः प्रतिपत्तिः ? स एवेति चेत्; न; तस्याप्रतिपत्तावस्यैवाभावात् । प्रतिपत्तौ भावश्चेत्; न; २० परस्पराश्रयात्-भावात्प्रतिपत्तिः, ततश्च भाव इति । तदन्य एव परः, तत्प्रसिद्धादनुमानात् प्रकृतस्य प्रतिपत्तिरिति चेत् ; तस्यापि न प्रत्यक्षात्प्रतिपत्तिरुक्तदोषात् । नापि व्यापारादिलिङ्गजादनुमानात् ; तस्यापि स्वयमप्रसिद्धेः । परप्रसिद्धादेव ततोऽपि तस्य प्रतिपत्तिरिति चेत्; न ; अत्रापि 'कः पुनः ' इत्यादेः प्रसङ्गाद्व्यवस्थवैधुर्याच्च । तन्न परप्रसिद्धादपि ततः परेषामभिमतनिष्पत्तिः । कथञ्चैवं प्रत्यक्षस्यापि प्रामाण्यम् ? विषयपरिच्छेदादिति चेत्; न; तस्याऽसत्यपि विषये भावात् । अव्यभिचारादिति चेत्; २५ स एव तत्र कुतः ? प्रामाण्यात् । तदपि ? अव्यभिचारादिति चेत्; न; परस्पराश्रयस्य स्पष्टत्वात् । अन्यतस्तस्याव्यभिचारः प्रतीयते ततश्च प्रामाण्यमिति चेत्; किं तदन्यत् : प्रत्यक्ष मिति चेत्; तदव्यभिचारस्यापि तदन्यतः प्रतिपत्तावव्यवस्थापत्तेः । अर्थक्रियाज्ञानमिति चेत्; न; अविशेषात् ।
;
चेत् ;
१ अनुमानाप्रामाण्ये । २ शास्त्रम् । ३ 'चार्वाकमतापेक्षया " - ता०टि० । ४ चैतन्यम् । ५ - वदिति चेत् आ०, ब०, प० । ६ तद्विषययोः आ०, ब०, प० । ७ "रूपादौ संशयो नास्ति यथा, सुप इवेति सूत्रेण सप्तम्यन्तात् वत्प्रत्ययः ।" - ता० टि० । ८ " स्वस्थ चार्वाकस्य " - ता० टि० । ९ -वस्था मर्याच्च
भा०, ब०, प० ।