________________
४
सुभाषितमेतत्
न्यायविनिश्चयविवरणे
"प्रामाण्यं वस्तुविषयस्तयोरर्थभिदां जगौ । प्रतिभासस्य भिन्नत्वादेकस्मिंस्तदयोगतः ॥।" [
] इति
सदेकरूपं वेति ? न तावदेक
मा भूदनुमानमपि द्विरूपमिति चेत्; किमिदानीं तदेव नास्ति, ५ रूषम् ; ग्राह्याकारमात्रेणावस्तुत्वात्, स्वालक्षण्यमात्रेण प्रत्यक्षत्वात् । तदेव नास्तीति चेत् ; किमिदानीं तत्प्रमाणम् यतः किमपि स्वाभिमतं सिध्येत् ? प्रत्यक्षमेव, तत एवाभिमतस्याद्वैतात्मनः स्वरूपस्य सिद्धेरिति चेत् ; कुतस्तस्य वस्तुसत्त्वम् : प्रतिभासादिति चेत्; न; तस्य बहिर्भावसन्तानभेदादाववस्तुसत्यपि भावात् । विचारसहात् प्रतिभासादिति चेत्; यदि नामायं तथाऽपि तस्मात् कुतो वस्तुसत्त्वस्या - वगतिः ? अविनाभावादिति चेत्; आगतमनुमानम् - अविनाभाविनो धर्मात् धर्मान्तरावगमस्यैवानुमानत्वेन १० तद्वादिनामिष्टत्वात् । वस्तुसतोऽपि ततः कस्मात् स्वरूपस्यैवाद्वैतात्मनः परिज्ञानं न पुनर्बहिर्भावादेः भेदस्यापि : तस्य तत्रानुपलम्भादिति चेत्; अस्तु नामानुपलम्भः तथापि कस्मादसौ तत्परिज्ञाननिषेधमवबोधयति ? अविनाभावादिति चेत्; उक्तमुत्तरम् - 'आगतम्' इत्यादि । तन्नानुमानमन्तरेण क्वचित्कस्य - . चिद्विधानं प्रतिषेधो वा सम्भवति, तत एवाह - तदत्यये । तस्यानुमानस्य अत्यये अभावे क्वचित् प्रत्यक्षे एकस्य वस्तुसत्त्वस्य यद्विधानं यश्च प्रतिषेधो बहिर्भावादिपरिज्ञानस्य तयोः विरोधात् १५ अनुपपत्तेः । साधनात्साध्यविज्ञानमनुमानमिति सम्बन्धः । तन्न तदेव नास्ति । सतोऽपि नैकरूपत्वम् ; द्वैरूप्येऽपि न प्रत्यक्षाद्भिन्नविषयत्वमित्युपपन्नमेतत् विषयपरिच्छेदरूपमनुमानं प्रमाणत्वादिति ।
[२१
बार्हस्पत्यास्तु प्राहुः–सतोऽप्यनुमानस्य कथं प्रामाण्यम् ? अन्यभिचारिलिङ्गप्रभवत्वादिति चेत् ; तदेव कुतः ? प्रामाण्यादिति चेत्; न; परस्पराश्रयात् - तत्प्रभवत्वात्प्रामाण्यं ततश्च तत्प्रभवत्वमिति । अन्यत एव तस्य तत्प्रभवत्वमवगम्यते ततश्च प्रामाण्यमिति चेत्; अन्यस्य प्रत्यक्षत्वे व्यर्थं तत्प्रामाण्य२० परिकल्पनम्, तत एव साध्यस्यापि परिज्ञानात् अन्यथा तदव्यभिचारिलिङ्गप्रभवत्वस्य ततो ऽनवगमात् । अनुमानत्वे तु कथं तस्यापि प्रामाण्यम् ? अव्यभिचारिलिङ्गप्रभवत्वादिति चेत्; न; तत्रापि ' तदेव कुतः ' इत्यादेः प्रसङ्गादनवस्थानदौस्थ्योपनिपातात् । "व चेदमव्यभिचारित्वं लिङ्गस्य प्रतिपत्तव्यम् ? दृष्टान्त इति चेत् ; न ; तत्र तद्गतस्यैव तस्य प्रतिपत्तेर्नान्यस्य । तस्य तत्प्रतिपत्तिरेवान्यस्यापि तत्प्रतिपत्तिः समानत्वादिति चेत्; तर्हि धूमादे वि तत्पुत्रत्वादेरपि तथा तत्प्रतिपत्तेः श्यामत्वादौ सोऽपि गमक एव २५ भवेत् । भवत्येव यस्तत्समानः तस्याव्यभिचारात्, यस्तु गौरत्वादावपि दृश्यते स विलक्षण एवेति चेत् ; न कश्चिदिदानीं व्यभिचारी हेतुः सर्वस्यैव गमकत्वात् । सत्यमिदम्, तदपेक्षया यस्य वैलक्षण्यपरिज्ञानं तद्विकलप्रतिपत्रपेक्षयैव व्यभिचारस्य परिकल्पनादिति चेत्; नेदानीमेकान्ततः क्वचिद्व्यभिचारइति कथं तेन परस्यैकान्तिकः पराजयः स्यात् । तन्न दृष्टान्ते तत्प्रतिपत्तिः । नापि सर्वत्र; तद्वतः सर्वज्ञत्वप्रसङ्गात् । न पक्षेऽपि ; तत्र साध्यस्य प्रतिषत्तौ तत्प्रतिपत्तिवैफल्यात् तस्यास्तदर्थत्वात् । अप्रतिपत्तौ तदव्यभि
1
1
"
१ नास्ति तदे - आ०, ब०, प० । २ क्वचिदव्य - आ०, ४ - देरिति त-आ०, ब०, प० । ५ अव्यभिचारित्वप्रतिपत्तेः । ७- तत् सर्वज्ञत्वेऽपि तत्र - आ०, ब०, प० ।
ब०, प० । ३ अव्यभिचारित्वस्य । ६ गोचरत्वादावपि आ०, ब०, प० ।