________________
२१]
२ अनुमानप्रस्तावः
“प्रतिभासो य ईदृक्षो ने संस्थानंविवर्जितः ।
"
"
]
एवमन्यत्र दृष्टत्वादनुमानं तथा च तत् ॥” [ प्र० वार्तिकाल ० १।१ ] इति वचनादिति चेत्; तल्लिङ्गमेवेति कुतः ? प्रतिबन्धादिति चेत्; अनुमानमपि तदेव स्यात् तदविशेषात् । तत्राप्यन्यदेव तदुद्भवमनुमानं प्रमाणमिति चेत्; न; तत्रापि पूर्ववल्लिङ्गत्वोपनिपातात् पुनरनुमानान्तरपरिकल्पनायार्मेव्यवस्थापत्तेः । न चैवं प्रत्यक्षस्यापि प्रामाण्यम्, प्रतिबन्धबलेन तत्रापि ५ लिङ्गत्वस्यैवोपपत्तेः ; सत्यम् ; वस्तुतः तत्प्रतिभासस्यापि लिङ्गत्वम् । अनभ्यासे तत एव प्राप्यस्यानुमानात् । . अभ्यासे तु लिङ्गमपि प्रत्यक्षमेव, तस्यैव प्राप्यप्रतिभासित्वेन व्यवहारिभिरभ्यनुज्ञानात् । तदनुरोधादेव च तत्प्रामाण्यस्य बौद्धः परिचिन्तनादिति चेत्; सिद्धमिदानीं तद्वदेवानुमानस्यापि तत्प्रतिभासित्वादेव प्रामाण्यं व्यवहर्तृ भिस्तथैवाभ्युपगमात् तत्प्रामाण्यस्यापि तदनुरोधादेव तैः परिचिन्तनात् । कः पुनस्तस्य विषय इति चेत् ? प्रत्यक्षस्य कः ? स्वलक्षणमेव परमाणुलक्षणमिति चेत् ; १० न ; तस्य कदाचिदप्यप्रतिवेदनात् । स्थूलपावकादिरिति चेत्; अनुमानस्यापि स एवास्तु तस्यैव तत्रापि प्रतिभासनात् । अर्थ एव तत्प्रतिभासो न भवति अस्पष्टत्वात् न स्पष्टोऽर्थः प्रत्यक्षेण पुनरन्यथैवोपलम्भात् । न हि तस्यैव पुनरन्यथोपलम्भो विरोधात् । अस्ति च ततो नार्थ एवायम् । अत एवोक्तम्" न च स एव प्रतिभासोऽर्थो युक्तस्तस्य पुनः प्रत्यक्षेणान्यथा दर्शनात् " [ इति । इति चेत् ; किम्पुनरिदं तस्यानर्थत्वम् ? बोधरूपत्वमेव, स्वतस्तथैव प्रतिपत्तेरिति चेत् ; न तत्रार्थविभ्रमः, अनर्थत्वप्रतिपत्त्या तस्य विरोधात् । अथ स एवानुमानविकल्पः तद्विभ्रमो न भवति, विकल्पान्तरस्यैव तज्जन्मनस्तत्त्वादिति चेत्; कथं तर्हि तस्यैव विभ्रमत्वमुक्तम् - " तदेतदतस्मिंस्तग्रहो भ्रान्ति:" [ ] इति ? विभ्रमविकल्पजननादिति चेत्; न; तेनापि व्यतिरिक्तस्याप्रतिवेदनात् । अव्यतिरिक्तस्य च बोधरूपतयैव प्रतिपत्तेः कथं सोऽप्यर्थविभ्रमः ? मा भूत्तज्जन्मनो विकल्पस्यैव तत्त्वादिति चेत् ; न ; तेनाषीत्यादेः प्रसङ्गादनवस्थापत्तेश्च । तन्नेदमनर्थत्वम् । अवस्तुरूप- २० त्वमिति चेत् ; तद्रूषस्य कथमनुमानेऽपि प्रतिभासनम् ? तत्कारणत्वादिति चेत्; न; तत्र तदसम्भवात् । तदव्यतिरेकादिति चेत् ; वस्तुरूपत्वमेव स्यात् अनुमानस्य तत्त्वात् । तस्याप्यवस्तुरूपत्वमिति चेत् ; सुस्थितमनुमानत्वम् बोधस्यैव तत्त्वोपगमात् अवस्तुरूपस्य च बोधत्वासम्भवात् । अवस्तु-वस्तुरूपमेवानुमानम्, तद्ग्राह्याकारस्यैवावस्तुरूपत्वात्, तदतद्रूपतया द्विरूपस्यानुमानस्य प्रतीतिबलेनाभ्युपगमादिति चेत् ; अभिमतमापतितम्, अर्थस्यापि स्पष्टेतररूपतया द्विरूपस्यैवापत्तेः । द्विरूपतयैव प्रत्यक्षेऽन्यत्र च किन्न २५ तस्य प्रतिभासनमिति चेत् न ; प्रमाणस्य समानाकार गोचरत्वाभावत् । अन्यथा ऽनुमाने ग्राह्याकारस्यावस्तुरूपत्वमपि प्रतिभासत इति कथं तत्रार्थभ्रान्तिः ? अनिश्चयादिति चेत्; तदव्यतिरिक्ते भासुरादिरूपेऽपि कथं निश्चयो यतः पावकादौ तदर्थिनः प्रवर्त्तेरन् ? निश्चये वा खण्डशो ग्रहणमर्थस्य स्यात् प्रत्यक्षेण स्पष्टतया अन्यथा चानुमानेन । तन्न प्रतिभासभेदादर्थभेदप्रकल्पनं तयोरूपपन्नमिति ने
१ नः सं-आ०, ब०, प० । २ - नव-आ०, ब०, प० । ३ - दविशे- आ०, ब०, प० । ४- मनवआ०, ब०, प० । ५ व्यवहार्यनुरोधादेव । ६ - नादिति चे-आ०, ब०, प० । ७ सोव्यर्थ - आ०, ब०, प० । ८ - वादवस्तुरूप-आ०, ब०, प० । ९ न सम्भावित - आ०, ब०, प० ।
१५