________________
न्यायविनिश्चयविवरणे
[२।१ “साधनाद्विज्ञानम्' इत्येवास्तु न साध्यग्रहणम् , साध्यविज्ञानस्यैव साधनादुत्पत्तेः । न साधनत्वं तस्य स्वरूपविषयं सम्भवति साध्यविषयतयैव तस्य निर्णयात् । रूपान्तरप्रयुक्तन्तु ततस्तद्विज्ञानं रूपान्तराद्विज्ञानमेव न साधनाद्विज्ञानम् । तन्न साधनज्ञाननिवृत्यर्थं साध्यग्रहणम् । असाध्यज्ञाननिवृत्त्यर्थमित्यपि न चतुरस्रम् ; असाध्यापेक्षया कस्यचित् साधनत्वानुपपत्तेः ।
अन्यथाऽनुपपत्त्या हि साधनं व्यवतिष्ठते । अन्यथानुपपत्तिश्च साध्यापेक्षैव नान्यथा ॥ १२१० ॥ साधनं प्रकृताभावेऽनुपपन्न मिति श्रुतेः ।। शक्यत्वादिविशिष्टञ्च साध्यं प्रकृतमुच्यते ॥ १२११ ॥ तदसाध्ये न विज्ञानं साधनादस्ति सम्भवि ।
यद्व्यवच्छित्तये साध्यपदमत्रोपवर्ण्यते ॥ १२१२ ॥ तन्न साध्यपदमर्थवत् विनाऽपि तेन तदर्थस्य प्रतिपत्तेः । साध्यविज्ञानमित्येवं वाऽस्तु न साधनादिति, साधनादेव तद्विज्ञानस्य भावात् । प्रत्यक्षादपि भावः पर्वतादावनुमितस्य पावकादेः प्रत्यक्षादपि प्रतिपत्तेरिति चेत् ; न ; साध्यस्य शक्याभिप्रेतादिरूपत्वात् , तद्रूपतया च ततस्तस्याप्रतिपत्तेः ।
अव्यतिरिक्तमेव पावकादेस्तद्रूपम् , द्रव्यनयार्पणादिति चेत् ; सत्यम् ; न तथाऽपि तस्य मुख्यं साध्य१५ त्वम् , विशेषरूपस्यैव पर्यायनयाप्तिस्य मुख्यतया तत्त्वेन लक्षणात् । तस्य च साधनादेव प्रतिपत्तिः, न प्रत्यक्षादिति विफलं साधनादिति पदमिति चेत् ; इत्थमेतत् तान् प्रति येषामेवं परिज्ञानसामर्थ्यम् , ये तु बालाः शब्दताडित एवार्थे प्रतिपत्तिसौकर्य मन्यन्ते न तान्प्रति । ततस्तेषां तत्सौकर्यावकल्पनाय पदद्वयोपादानम् । शास्त्रस्यापि मुख्यतस्तदुषकारपरतयैव प्रवृत्तत्वात् । अत एवोक्तम्-'बालानां
हितकामिनाम्' इति । २० विज्ञानग्रहणं तर्हि व्यर्थ प्रमाणत्वादेवानुमानस्य विज्ञानत्वप्रतिपत्तेः, विवेचितश्च विज्ञानमेव
प्रमाणमिति । यदि पुनर्विज्ञानं विज्ञेयमुच्यते कर्मणि कृद्विधानात् , तदयमत्र समासः-साध्यं विज्ञानं विज्ञेयं यस्य तत् साध्यविज्ञानमिति ; तन्न ; एवं सति साध्यविज्ञेयमिति स्पष्टस्यैवोपन्यासस्य प्रसङ्गात् । तन्न तद्ग्रहणमर्थवदिति चेत् ; न; अनुमानस्य परिच्छित्तिरूपत्वप्रतिपादनार्थत्वात् । तस्य तद्रूपत्वमपि विज्ञानत्वादेव प्रतीयत इति चेत् ; न ; तथाऽपि बौद्धैस्तदनभ्युपगमात् । न चैतद्वाङ्मात्रम् ; प्रमाणभावात्-विषयपरिच्छित्तिरूपमनुमानं प्रमाणत्वात् प्रत्यक्षवदिति । प्रत्यक्षमपि प्रतिबन्धादेव तद्विषये प्रमाणं न तत्परिच्छित्तिरूपत्वादिति चेत् ; न ; द्विचन्द्रादिज्ञानस्याप्येवं प्रामाण्यापत्तेः । एकचन्द्रादौ तस्यापि तद्भावभावित्वेन प्रतिबन्धात् । तथा च न तत्प्रत्यक्षम् , भ्रान्तत्वात् । नानुमानम् ; अलिङ्गजत्वादिति प्रमाणद्वित्वनियमव्याघातकमन्यदेव प्रमाणं भवेत् । अथ तल्लिङ्गमेव एकचन्द्रादौ न प्रमाणम् ; तल्लिङ्गजस्यानुमानस्यैव तत्र प्रामाण्यात् ।
१-त्वं न तस्य आ०, ब०, प०। २ साधनस्वरूप । ३-तं तत-आ०, १०, प०। ४-त्येवास्तु आ०, ब०,०। ५ प्रत्यक्षतः। ६साध्यत्वेन । ७"प्रत्यक्षं ह्यभ्रान्तं प्रत्यक्ष कल्पनापोढमभ्रान्तमिति वचनात्"-ता० टि।