________________
श्रीमद्भट्टाकलङ्कदेवविरचितः न्यायविनिश्चयः स्याद्वादविद्यापतिश्रीमद्वादिराजसूरिरचितन्यायविनिश्चयविवरणसहितः
[द्वितीयोऽनुमानप्रस्तावः ] एतावदपाकृतविप्रतिपत्तिकतया प्रत्यक्षं प्रभेदतो निरूपितम् , इदानीं परोक्षस्य तथा निरूपणमवसरप्राप्तमिति तत्प्रभेदमनुमानं निरूपयन्नाह
साधनात्साध्यविज्ञानमनुमानं तदत्यये ।
विरोधात्वचिदेकस्य विधानप्रतिषेधयोः ॥१॥ इति । स्मरणादिरपि तत्प्रभेद एव तस्य कस्मादनिरूषणमिति चेत् ? न ; तस्यापि पश्चान्निरूपणात् । ५ पूर्वमेव तस्य निरूषणमुपपन्नम् , स्मरणादिक्रमेण तत्प्रभेदस्य सूत्रे' निर्देशात्-"स्मृतिः सञ्ज्ञा चिन्ताभिनिबोधः" [ त० सू० १११३ ] इति, निर्देशानुरूपत्वाच्च निरूपणस्येति चेत् ; सत्यमिदम् ; तथापि प्राधान्यादनुमानस्य तदेवात्र प्रथम निरूप्यते । कथं प्राधान्यमिति चेत् ? उच्यते, शास्त्रमिदं प्रवचनप्रामाण्यनिरूपणपरम् 'बालानाम्' इत्यादिना शास्त्रारम्भे तथैव प्रतिपादनात् । तत्प्रामाण्यञ्च प्रत्यक्षानुमेयात्यन्तपरोक्षविषयम् । तत्र प्रत्यक्षविषये तदविसंवादात् तत्प्रामाण्यनिवेदनार्थं प्रत्यक्षं निरूषितम् । १० तथा प्रवचनमत्यन्तपरोक्षे तत एव तदर्थं निरूपयिष्यते । परिशिष्टमनुमेयं तत्र च प्रधानमनुमानमेव तदविसंवादादेव तत्र तत्प्रामाण्यनिर्णयात् , ततस्तदेवात्र प्रथमं निरूप्यते । तन्निर्णयानुपयोगिनः स्मरणादेः पश्चादपि किमर्थ निरूपणमिति चेत् ? अनुमान(नार्थ)मेवेति ब्रूमः । न ह्यनुमानं तन्निरपेक्षमुत्पत्तुमर्हति । निवेदयिष्यते चैतत् पश्चादेव । शास्त्रान्तरे तर्हि कथं स्मरणादेः पूर्व निरूपणं कृतमिति चेत् ? न ; तत्रापरतभेदापेक्षस्य तत्प्राधान्यस्य विवक्षितत्वात् । तदपि तस्य तत्प्रामाण्यनिर्णय प्रति न प्रत्यक्षादिवत् १५ साक्षादुषयोगात् अपि तु पारम्पर्येण । अत एव कथञ्चित्तदुपयोगिन एव परोक्षभेदस्य शास्त्रे निरूपणं नापरस्य । न ह्यपरस्तभेदो नास्त्येव सम्भवैतिह्यप्रतिभादेरनेकप्रकारस्य तस्योपलम्भादित्यलं प्रसङ्गेन ।
प्रकृतं व्याचक्ष्महे-साधनं साध्याविनाभावनियमनिर्णयैकलक्षणं वक्ष्यमाणं लिङ्गम् , तस्मात् । साध्यस्य वक्ष्यमाणलक्षणस्यैव यद् विज्ञानम् । तद् अनु व्याप्तिनिर्णयस्य पश्चाद्भावि मानम् अनुमानम् ।
१ “मतिः स्मृतिः संज्ञा चिन्ताऽभिनिबोध इत्यनर्थान्तरम् ।” इति सूत्रे । २ श्लो० २ । ३ प्रवचनप्रामाण्यञ्च । ४ तत्प्र-आर, ब०, प०। ५ "प्रवचनाविसंवादात् । पूर्वापराविरोध एव प्रवचनस्य प्रवचनाविसंवादः । उक्तञ्चाशाधरैः-दृष्टेऽर्थेऽध्यक्षतो वाक्यमनुमेयेऽनुमानतः । पूर्वापराविरोधेन परोक्षे च प्रमाणतामिति ।'-ता०टि०। ६ प्रवचनप्रामाण्यनिर्णयानुपयोगिनः । ७ स्मरणादिनिरपेक्षम् ।