________________
२॥३]
२ अनुमानप्रस्तावः “साधनं यद्विवादेन न्यस्तं तच्चेन्न साधयेत् ।
किं साध्यमन्यथाऽनिष्टं भवेद्वैफल्यमेव वा ॥" [प्र० वा० ४।३३ ] इति चेत् ; तन्न ; क्षणिकत्वमुपक्रम्यानित्यत्वसाधनेऽप्येवं दोषात् । न दोषः, तत्साधनादेव तस्यापि तत्प्राप्तेरिति चेत् ; कथमन्यसाधनादन्यस्य तत्प्राप्तिः अन्यथेष्टवदनिष्टस्याषि तत्प्राप्तिः, तथा च सर्वो हेतुविरुद्धो दृष्टान्तश्च साध्यविकलः स्यात् । परस्परविरुद्धस्य साध्यसन्दोहस्य क्वचिदसम्भवा- ५ दयमपि न दोषः, कुतश्चित् प्रत्यासत्तेरिष्टस्यैव सिद्धेरिति चेत् ; न तर्हि पारार्थ्यसाधनादेवाऽऽत्मार्थत्वसिद्धिमन्विच्छतः साङ्ख्यस्याप्ययं दोषः, प्रत्यासत्तिविरहादेवानिष्टसिद्धेर्निवारणात् । ततो नेदं तत्र दूषणं प्रज्ञाकरस्य
"यद्यन्यस्मिन् साध्यमानेऽप्यसाध्यं सिद्धयेदिष्टं सर्वसिद्धिस्ततः स्यात् । । प्रत्यासत्तेस्तारतम्यं विनाऽपि सिद्धयेत् किश्चिन्नान्यदेतत् कुतः स्यात् ॥" १०
[प्र० वार्तिकाल० ४।३३ ] इति । कथं पुनः प्रत्यासत्तावप्यन्यसाधनादन्यस्य सिद्धिः, प्रत्यक्षतो हेतुसाधनादेव सोध्यसिद्धेरनुमानवैफल्यप्राप्तेः । ततोऽन्यैव तत्कृता तत्सिद्धिरिति चेत् ; ततोऽपि कथमात्मार्थत्वस्य साधनम् अनन्वयात् ? प्रत्यासन्नस्य कस्यचिदन्वयिन एव ततोऽपि साधनमिति चेत् ; न ; अनवस्थादोषात् । इत्यपि दूषणमनित्यत्वसाधनात् क्षणिकत्वसिद्धावप्यनुबध्यमानमात्मनो न वैमुख्येन सख्यं प्रख्यापयति । तन्न बहिः १५. क्षणिकत्वस्याप्यन्वय आत्मार्थत्ववत् । भवतु पक्ष एव स तस्येति चेत् ; न ; आत्मार्थत्वेऽपि प्रसङ्गात् । . . कः पुनरात्मनः चक्षुरादिभिरर्थः ? न तावदुत्पत्तिः ; नित्यत्वात् । नापि विषयानुभवः ; तस्यापि तदव्यतिरेकात् , अन्यथा न तस्येति व्यपदेशः, सम्बन्धाभावात् । तेनापि तदनन्तरकल्पनेऽनवस्थानप्राप्तेः । एतेन तदभिव्यक्तिः प्रत्युक्ता । तन्न कूटस्थस्य तैः कश्चिदप्यर्थः सम्भवति यस्तेषां तादर्थ्यम् , पक्ष एव च तस्यान्वयः स्यात् । अपरापरानुभवस्वभावस्य सम्भवत्येव तैरर्थ इति चेत् ; २० स तर्हि बौद्धप्रसिद्धः सन्तान एवेति तत्साधने विरुद्ध एव हेतुः स्यादिति चेत् ; उच्यते-किमिदं क्षणिकत्वमपि ? पूर्वापरपर्यायविच्छेद इति चेत् ; न ; तस्य नीरूपस्याप्रतिपत्तिविषयत्वात् । कालापकर्षपर्यन्तपर्यवसितं वस्त्वेवेति चेत् ; कथं तस्य वस्तुत्वम् ? न प्रतिभासात् ; व्यभिचारात् । नाप्यर्थक्रियासामर्थ्यात् ; तत्र तस्य निषेधात् । तन्न तस्यापि सम्भवो यस्य पक्ष एवान्वयः स्यात् । सान्वयविच्छेदरूषं तत्सम्भवत्येव तत्र तत्सामर्थ्यस्यानिषेधादिति चेत् ; तत्तर्हि जैनसिद्धमनेकान्तमेवेति तत्सा- २५ धनेऽपि कथं न विरुद्धो हेतुः । तदुक्तम्
"पारायं चक्षुरादीनां यथाऽनिष्टं प्रसाधयेत् ।
सङ्घातत्वं तथा सत्त्वं शब्दानित्यत्वसाधने ॥" [ ] इति । तन्न सामोपनिपातिनः साध्यत्वप्रतिपादनार्थ बौद्धस्येष्टग्रहणमुपपन्नम् , अनिष्टापत्तेः । न चैवमभिप्रेतं साध्यमिच्छतो जैनस्य काचित्तदापत्तिः ; तदभिप्रेतस्य बहिरन्वये सत्यसत्यपि अन्तर्व्याप्ति- ३०
१ "साधनप्राप्तेः"-ता० टि० । २ साध्यसिद्धिरनु-आ०, ब०, प० । ३ अन्वयः ।