________________
६४.
न्यायविनिश्चयविवरणे प्रतिपक्षस्थिरीभावः प्रायः संस्कारपाटवत् । निर्हासातिशयो येषां तत्प्रकर्षापकर्षयोः ॥ ५९॥ यद्यप्यनात्मविज्ञानभावनासम्भवस्ततः। न निरोधो निरोधे वा न प्रयोजनमीक्ष्यते ॥ ६॥ हेयोपादेयतत्त्वार्थविपरीतव्यवस्थितः। मिथ्याज्ञानमनात्मशं मैग्यादिप्रतिरोधतः॥६१ ॥ तत्त्वार्थदर्शनशानचारित्रेषु महीयसाम् । आत्मीयेषु प्रमोदादिरत एव विधीयते ॥ ६ ॥ यस्तावत् करुणावस्वात्तिष्ठत्येव हि चेतसाम् । .... सन्तानः स परोच्छेदान्न समत्वं प्रपद्यते ॥ ६३ ॥. तस्मात् निरामवीभावः संसारान्मोक्ष उच्यते। । सन्तानस्यात्मनो वेति शब्दमात्रं तु भिद्यते ॥ ६४॥ नित्यस्येच्छा-प्रधानादियोगोऽनित्यः किमात्मनः। मिथ्याशानादनिर्मोक्षस्तथाऽनेकान्तविद्विषाम् ॥ ६५ ॥ द्रव्यपर्यायसामान्यविशेषप्रविभागतः। स्याद्विधिप्रतिषेधाभ्यां सप्तभङ्गी प्रवर्तते ॥ ६६ ॥ .. तदतद्वस्तुभेदेन वाचो वृत्तेस्तथोभयम् । तदतद्वागवृत्तेश्च सह तदवागवृत्तिना ॥ ६७ ॥ प्रयोगविरहे जातु पदस्यार्थः प्रतीमते । स हि शब्दार्थतत्वस्तस्येति व्यपदिश्यते ॥ ६८॥ अहमस्मीति वाफ्यादौ सिद्धावन्यतरस्थितः।। उभयोक्तिवदत्रोक्तावुपालम्भो विरुद्ध्यते ॥ ६९ ॥ यदि केचित् प्रवक्तारो वृत्तिवाक्यार्थयोरपि । सूत्रेष्वेव तयोरुक्तौ त्रैलोक्यं किन्न वर्तते ॥ ७० ॥ केवलं प्रतिपत्तारः स्याद्वादे जडवृत्तयः । जातितद्वदपोहादिवादं च न हि जानते ॥७॥ सर्वथैकान्तविश्लेषतत्त्वमार्गव्यवस्थिताः । व्याख्यातारो विवक्षातः स्याद्वादमनुरुन्धते ॥७२॥ अनेकलक्षणार्थस्य प्रसिद्धस्याभिधानतः। संशयादिप्रसङ्गः किं स्याद्वादेऽमूढचेतसः ॥७३॥ साकल्येनेह सामान्यविशेषपरिणामधीः। मिथ्यकान्तप्रवादेभ्यो विदुषो विनिवर्तयेत् ॥७॥ आप्तवादः स स एवायं यत्रार्थः समवायिनः। प्रमाणमविसंवादात् प्रणेता यदि शक्यते ॥७५॥ आत्मा योऽस्य प्रवक्तायमपरालीढसत्पथः। नात्यक्षं यदि जानाति नोपदेष्टुं प्रवर्त्तते ॥७६॥ परीक्षाक्षमवाक्यार्थपरिनिष्ठितचेतसाम् । अदृष्टदोषाशङ्कायामन्यत्रापि प्रसज्यते ॥७॥ प्रत्यक्षागमयोरिष्टं प्रामाण्यं गुणदोषयोः । उपलब्ध्यनुपलब्धिभ्यां क्वचिद्वृत्तसमत्वतः ॥७॥