________________
न्यायविनिश्चयः उपादानस्य सूक्ष्मत्वाद् युक्तं चानुपलम्भनम् । सादृश्यान्नैकरूपत्वात् स एवायमिति स्थितिः ॥३९॥ यदि चैवंविधो नित्यो नित्यास्ते विद्युदादयः। प्रत्यभिक्षाऽप्रमाणं स्यात् युगपद्भिन्नदेशयोः ॥४०॥ सर्वार्थानामनादित्वे स विशेषो निराश्रयः। योऽन्यथासम्भवी शब्दघटाद्याख्योऽवभासते ॥४१॥ स वर्णपदवाक्यानां कालदेशादिभेदिनाम् । सदृशानां प्रबन्धोऽयं सर्वेषां न विरुद्धयते ॥४२॥ वाचः प्रमाणपूर्वायाःप्रामाण्यं वस्तुसिद्धये । स्वतः सामर्थ्यविश्लेषात् सङ्केतं हि प्रतीक्षते ॥४३॥ स पुनर्बहुधा लोकव्यवहारस्य दर्शनात्। शब्दार्थयोर्विकल्पेन सन्निवेशोऽनुवर्तते ॥४४॥ न सर्वयोग्यता साध्वी सङ्कतान्नियमो यदि । सम्बन्धनियमेऽन्यत्र समयेऽपि न वर्तताम् ॥४५॥ ततः शब्दार्थयोर्नास्ति सम्बन्धोऽपौरुषेयकः॥४५३॥ स हि शब्दार्थसम्बन्धो यतोऽर्थः सम्प्रतीयते । तादृशो वाचकः शब्दः सङ्केतो यत्र वर्तते ॥४६॥ क्रमेणोच्चार्यमाणेषु ध्वनिभागेषु केषुचित् ।। न वर्णपदवाक्याख्या अविकारेण्वसम्भवात् ॥४७३॥ शब्दभागाः स्वहेतुभ्यः समानोन्नयहेतवः। सकलाग्रहणात् तेषां युक्ता हि श्रोत्रगोचराः॥४८॥ परिणामविशेषा हि भावानां भावशक्त्यः॥४९॥ ध्वनयस्तत्समर्थानां अभावादतिरेकिणाम् । वाचामपौरुषेयीणामाविर्भावो न युज्यते ॥५०॥ सम्यग्ज्ञानाङ कुशः सत्यः पुरुषार्थाभिधायकः। इति अत्रापौरुषेयत्वं जातु सिद्धमनर्थकम् ॥५१॥ रागादयः सजातीयपरिणामाभिवृद्धयः। सर्वाथानामनेकात्मपरिणामौ व्यवस्थितौ । मार्गस्तद्विषयश्चेति मतं सत्यं चतुर्विधम् ॥५२॥ अहं ममास्रवो बन्धः संवरो निर्जरा क्षयः। कर्मणामिति सत्कृत्य प्रेक्षाकारी समीहते ॥५३॥ तत्त्वज्ञानप्रभावेण तपः संवरणं नृणाम् । तपसश्च प्रभावेण निर्जीणं कर्म जायते ॥५४॥ रागद्वेषौ विहायैव गुणदोषवतोस्तयोः। मोक्षज्ञानात् प्रवर्तन्ते मुनयः समबुद्धयः ॥५५॥ सज्ज्ञानपरिणामात्मतत्त्वसम्प्रतिपत्तितः। पीतदोषास्रवाकारो विपरीतग्रहक्षयः ॥५६॥ सूचयन्ति हि कर्माणि स्वहेतुप्रकृतीनि च ॥ ५७ ॥ सात्मीभावाद्विपक्षस्य सतो दोषस्य संक्षये । कर्माश्लेषः प्रवृत्तानां निवृत्तिः फलदायिनाम् ॥ ५८ ॥