________________
न्यायविनिश्चयविवरण
आगमः पोरुषेयः स्यात् प्रमाणमतिलौकिके। संवादासम्भवाभावात् समयाविप्रलम्भने ॥ १९ ॥ सकलशस्य नास्तित्वे स्वसर्वानुपलम्भयोः। आरेकासिद्धते तस्याप्यर्वाग्दर्शनतोऽगतेः॥२०॥ विज्ञानमञ्जसा स्पष्टं विप्रकृष्टे विरुद्धयते।। न स्वप्ने क्षणिकादेर्वा ज्ञानावृतिविवेकतः॥ २१॥ ततः संसारिण सर्वे कथञ्चिञ्चेतनात्मकाः। तत्तत्स्वभावतो शानं सर्वत्र शबलायते ॥ २२॥ अभिन्नो भिन्नजातीयैर्जीबः स्याश्चेतनः स्वयम् । मलैरिव मणिर्विद्धः कर्मभिर्न प्रकाशते ॥ २३ ॥ सर्वार्थग्रहसामर्थ्यचैतन्यप्रतिबन्धिनाम्। - कर्मणां विगमे कस्मात् सर्वानान्न पश्यति ॥ २४ ॥ प्रभुः साक्षात्कृताशेषप्रपञ्चभुवनत्रयः। अनर्थैः परमात्मानमत एव न योजयेत् ॥ २५ ॥ एवं यत्केवलज्ञानमनुमानविजृम्भितम् । नर्ते तदागमात् सिद्ध्येत न च तेन विनाऽऽगमः ॥ २६ ॥ सत्यमर्थबलादेव पुरुषातिशयो मतः । प्रभवः पौरुषेयोऽस्य प्रबन्धोऽनादिरिष्यते ॥ २७ ॥ ग्रहादिगतयः सर्वाः सुखदुःखादिहेतवः । येन साक्षात्कृतास्तेन किन्न साक्षात्कृतं जगत् ॥ २८ ॥ सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वशसंस्थितिः ॥२९॥ वेदस्यापौरुषेयस्य स्वतस्तत्त्वं विवृण्वतः। आयुर्वेदादि यद्यङ्गं यत्नस्तत्र निरर्थकः॥३०॥ शास्त्रज्ञानं तथैव स्यात् सामग्रीगुणदोषतः। अविरोधेऽपि नित्यस्य भवेदन्धपरम्परा ॥३१॥ तदर्थदर्शिनोऽभावान्म्लेच्छादिव्यवहारवत् ॥३१३ ॥ अनादिसम्प्रदायश्चेत् आयुर्वेदादिरागमः । कालेनैतावताऽनाप्तः कथन्न प्रलयं गतः ॥ ३२३ ॥ सिद्धं श्रुतेन्द्रियातीतं त्रिकालविषयं स्फुटम् ॥३३॥ तथा न क्षणिकादीनां सर्वथाप्तगुणात्ययात् । तद्विरम्य विरम्यैतद् युक्तं शास्त्रप्रवर्तनम् ॥३०॥ तादृशोऽभावविज्ञाने शास्त्रे वृत्तिरनर्थिका। सन्देहेऽपि च सन्देहस्ततस्तत्त्वं निरूप्यते ॥३५॥ स्वतन्त्रत्वे तु शब्दानां प्रयासोऽनर्थको भवेत् । व्यक्त्यावरणविच्छेदसंस्कारादिविरोधतः ॥३६॥ वंशादिस्वरधारायां सकुलाप्रतिपत्तितः। क्रमेणाशुग्रहेऽयुक्तः सकृद्ग्रहणविभ्रमः ॥३७॥ ताल्वादिसन्निधानेन शब्दोऽयं यदि जायते। . . को दोषो येन नित्यत्वं कुतश्चिदवकल्प्यते ॥३८॥