________________
प्रवचनप्रस्ताव:
सकलं सर्वथैकान्तप्रवादातीतगोचरम् । सिद्धं प्रवचनं सिद्धपरमात्मानुशासनम् ॥१॥ तथाऽन्यगुणदोषेषु संशयैकान्तवादिभिः।। पुरुषातिशयो ज्ञातुं यद्यशक्य किमिष्यते ॥२॥ परोक्षोऽप्यविनाभावसम्बद्धैर्गुणदोषयोः। शास्त्रैर्निवर्तितैः शास्त्रकारवत् सम्प्रतीयते ॥३॥ . सिद्धहिंसानृतस्तेयाब्रह्मचर्यप्रवृत्तितः। स प्रत्यस्तमिताशेषदोषो नेति प्रतीयते ॥४॥ हेयोपादेयतत्त्वस्य सोपायस्य किलेदृशः। प्रवक्ता धिगनात्मज्ञं तदसाध्यमसाधनम् ॥५॥ सर्वथाऽसदपादेयं हेयं सत तदकारणम। तदर्थोऽयं प्रयासश्चेत्यहो सत्यव्यवस्थितिः॥६॥ करुणा स्वपरज्ञानसन्तानोच्छेदकारणम् । इति न करुणा अत्यन्तं परदुःखं न गोचरः॥७॥ तत्त्वज्ञानाद्यनुत्पादहेतुरुन्मार्ग एव सः। मिथ्याविकल्पविज्ञानभावनापरिपाकतः॥८॥ तत्त्वज्ञानमुदेतीति कुतस्तत्वविनिश्चयः। अनादिवासना न स्यात् त्रैलोक्यमविकल्पकम् ॥९॥ निरुपद्रवभूतस्य बाधाऽयुक्ता विपर्ययैः । विच्छेदो वरमुच्छेदाद्विदस्तत्पक्षपाततः ॥१०॥ यस्तावत्करुणावत्त्वात् तिष्ठत्येव हि चेतसाम् । सन्तानः स परोच्छेदान्न समत्वं प्रपद्यते ॥११॥ तथा निरास्रवीभावः संसारान्मोक्ष उच्यते। सन्तानस्यात्मनो वा इति शब्दमानं तु भिद्यते ॥१२॥ नित्यस्यापि सतः साक्षाददृश्यानुभवात्मनः । सुखादिर्विषयः शब्दाद्यविशेषो धियाऽन्यथा ॥१३॥ प्रदयः पुनरस्यैव गुणयोगनिवृत्तितः । निर्वाणमाह वेदोऽयं प्रमाणमिति साहसम् ॥१४॥ विश्वलोकाधिकशाने विप्रलम्भनशङ्किनः। प्रामाण्यं कथमक्षादौ चञ्चले प्रमिमीमहे ॥ १५॥ परीक्षाक्षमवाक्यार्थपरिनिष्ठितचेतसाम् । अदृष्टदोषाशङ्कायाममानं सकलं भवेत् ॥ १६ ॥ प्रत्यक्षागमयोरिष्टं प्रामाण्यं गुणदोषयोः । दर्शनादर्शनाध्यासात् क्वचिद् वृत्तसमत्वतः ॥ १७ ॥ तज्ज्ञानपूर्वकं तळमनुमानसमीक्षितम् । । मानं वस्तुबलादेव सर्ववस्तुनिबन्धनम् ॥ १८॥
[एते १६-१८ अन्तरश्लोकाः]