________________
६०
न्यायविनिश्चयविवरणे
अणूनां श्रुतयोग्यत्वातिशयादानहानयः । शब्दोत्पत्तिविनाशाः सत्साध्यसाधनसंस्थितिः ॥ २०९ ॥ अन्यथाऽनुपपन्नत्वरहिता ये त्रिलक्षणाः । अकिञ्चित्कारकान् सर्वान् तान् वयं संगिरामहे ॥ २०२ ॥ तत्र मिथ्योत्तरं जातिः यथाऽनेकान्तविद्विषाम् । दध्युष्ट्रादेरभेदत्वप्रसङ्गादेकचोदनम् ॥२०३॥ सुगतोऽपि मृगो जातो मृगोऽपि सुगतः स्मृतः । तथापि सुगतो वन्द्यो मृगः खाद्यो यथेष्यते ॥ २०४॥ तथा वस्तुबलादेव भेदाभेदव्यवस्थितेः । चोदितो दधि खादेति किमुष्ट्रमभिधावति ॥ २०५ ॥ अत्रैवोभयपक्षोक्तदोषारेकाऽनवस्थितेः । अनन्वयादिदोषोक्तेः प्रपञ्चो वा ऽनया दिशा ॥ २०६ ॥ मिथ्योत्तराणामनन्त्या च्छास्त्रे वा विस्तरोक्तितः । साधर्म्यादिसमत्वेन जातिर्नेह प्रतन्यते ॥२०७॥ प्रकृताशेष तत्त्वार्थ प्रकाशपटुवादिनः । agart saणो वा विपरीतो निगृह्यते ॥२०८॥ असाधनाङ्गवचनमदोषोद्भवनं द्वयोः । न युक्तं निग्रहस्थान मर्थापरिसमाप्तितः ॥ २०९ ॥ वादी पराजितो युक्तो वस्तुतत्त्वे व्यवस्थितः । तत्र दोषं ब्रुवाणो वा विपर्यस्तः कथं जयेत् ॥२१०॥ सम्बन्धो यत्र निर्शातः साध्यसाधनधर्मयोः । स दृष्टान्तस्तदाभासाः साध्यादिविकलादयः ॥ २१९ ॥ सर्वत्रैव न दृष्टान्तोऽनन्वयेनापि साधनात् । अन्यथा सर्वभावानामसिद्धोऽयं क्षणक्षयः ॥ २१२ ॥ प्रत्यनीकव्यवच्छेदप्रकारेणैव सिद्धये ।
वचनं साधनादीनां वादः सोऽयं जिगीषतोः ॥ २१३ ॥ आस्तां तावदलाभादिरयमेव हि निग्रहः । न्यायेन विजिगीषूणां स्वाभिप्रायनिवर्तनम् ॥ २१४ ॥ तदाभासो वितण्डादिः अभ्युपेताव्यवस्थितेः । तदात्मोत्कर्षणायैव वाचो वृत्तिः अनेकधा ॥ २१५ ॥ प्रामाण्यं यदि शास्त्रगम्यमथ न प्रागर्थसंवादनात् । सङ्ख्यालक्षणगोचरार्थकथने किं कारणं चेतसाम् । आ ज्ञातं सकलागमार्थविषयज्ञानाविरोधं बुधाः । प्रेक्षन्ते तदुदीरितार्थ गहने सन्देहविच्छित्तये ॥ २१६ ॥ शास्त्रं शक्यपरीक्षणेऽपि विषये सर्व विसंवादकम् मिथ्यैकान्तकलङ्कितं बहुमुखैरुद्वीक्ष्य तर्कागमैः । दाहार्तेः परिणाम कल्पविटपिच्छायागतैः साम्प्रतं । विस्रब्धैरकलङ्करत्तनिचपन्यायो विनिश्चीयते ॥ २१७३ ॥
इति द्वितीयः अनुमान प्रस्तावः