________________
न्यायविनिश्चयः सत्त्वमर्थ क्रियाऽन्ये वा वस्तुधर्माः क्षणक्षये। .. हेत्वाभासा विरुद्धाख्याः परिणामप्रसाधनाः॥ १७९ ॥ सर्वज्ञप्रतिषेधे तु सन्दिग्धा वचनादयः । रागादिसाधनाः स्पष्टा एकलक्षणविद्विषाम् ॥ १८०॥ धर्मिधर्मस्य सन्देहे व्यतिरेके ततो भवेत् । असिद्धिः प्रतिबन्धस्येत्यपरे प्रतिपदिरे ॥ १८१ ॥ वाचो विरुद्धकार्यस्य सिद्धिः सर्वशबाधिनी। शिरःपाण्यादिमत्त्वाद्या विरुद्धव्याप्तसिद्धयः ॥१८२॥ सत्सम्प्रयोगजत्वेन विरुद्धः सकलग्रहः। स्वभावकारणासिद्धेरेकलक्षणविद्विषाम् ॥१८३॥ कथन्न सम्भवी वक्ता सर्वशस्तस्य तेन नो । यावत् प्रकृष्यते रूपं तावत् कार्य विरुद्धयते ॥१८४॥ विवक्षामन्तरेणापि वाग्वृत्तिर्जातु वीक्ष्यते । वाञ्छन्तो वा न वक्तारः शास्त्राणां मन्दबुद्धयः ॥१८५॥ प्रज्ञा येषु पटीयस्यः प्रायो वचनहेतवः । विवक्षानिरपेक्षास्ते पुरुषार्थ प्रचक्षते ॥१८६॥ अप्रमत्ता विवक्षेयमन्यथा नियमात्यात् । इष्टं सत्यं हितं वक्तुमिच्छा दोषवती कथम् ॥१८७॥ प्रज्ञाप्रकर्षपर्यन्तभावः सर्वार्थगोचरः। तत्कार्योत्कपर्यन्तभावः सर्वहितामिधा ॥१८८॥ यथा वचनसर्वज्ञकार्यकारण भूतयोः। अविरोधेन वाग्वृत्तेनराद्रेकस्तन्निषेधने ॥१८९॥ तथैव पुरुषत्वादेरक्षयाद बुद्धि विस्तरे । सर्वप्रकाशसामर्थ्य ज्ञानावरणसंक्षयात् ॥१९०॥ अक्षयात् पुरुषत्वादेः प्रतिपक्षस्य संक्षयात् । सर्वतोऽक्षमयं ज्योतिः सर्वार्थः सम्प्रयुज्यते ॥१९१॥ कथञ्चित् स्वप्रदेशेषु स्यात् कर्मपटलाच्छता। संसारिणां तु जीवानां यत्र ते चक्षुरादयः ॥१९२॥ साक्षात्कर्तुं विरोधः कः सर्वथावरणात्यये । सत्यमर्थ तथा सर्व यथाऽभूद्वा भविष्यति ॥१९३॥ परदुःखपरिज्ञानाद् दुःखितः स कथं भवेत् । स्वतो हि परिणामोऽयं दुःखितस्य न योगिनः ॥१९॥ भावनापाटवाद् बुद्धःप्रकर्षोऽयं मलक्षयः। कारणासम्भवाक्षेपविपक्षः सम्प्रतीयते ॥१९५॥ असिद्धश्चाक्षुषत्वादिः शब्दानित्यत्वसाधने । अन्यथासम्भवाभावभेदात् स बहुधा स्मृतः ॥१९६॥ सर्वथा नास्ति सामान्यं परिणामविनाशयोः। यो हेतोराश्रयः अनिष्टरिष्टः स्वात्माविशेषतः ॥१९८॥ साध्यसाधनभावो न शब्दे नाशित्वसत्त्वयोः। अनलः पावकोऽग्नित्वात् इत्यनेकान्तविद्विषाम् ॥१९९॥ सर्वान्यार्थासमः शब्दः शब्दादिपरिणामतः ॥२००॥