________________
५८
न्यायविनिश्चयविवरणे
प्रमाणसाधनोपायः प्रमाणान्तरगोचरः । व्याप्यव्यापक भावोऽयमेकत्रापि विभाव्यते ॥ १५९ ॥ सत्यप्यन्वयविज्ञाने स तर्कपरिनिष्ठितः । अविनाभावसम्बन्धः साकल्येनावधार्यते ॥ १६०॥ सहदृष्टैश्च धर्मैस्तं न विना तस्य सम्भवः । इति तर्कमपेक्षेत नियमेनैव लैङ्गिकम् ॥१६१॥ तस्माद्वस्तुबलादेव प्रमाणं मतिपूर्वकम् । बहुभेदं श्रुतं साक्षात् पारम्पर्येण चेष्यते ॥ १६२॥ अर्थमात्रावबोधेऽपि यतो नर्ते प्रवर्तनम् । सयुक्तो निश्चयो मुख्यं प्रमाणं तदनक्षवत् ॥ १६३॥ लिङ्गसांवृतयोस्तुल्या गृहीतग्रहणादपि । व्यवच्छेदावि संवादव्यवहर्तृप्रवृत्तयः ॥ १६४ ॥ शब्दाद्ययोगविच्छेदे तत्प्रामाण्यं न किं पुनः । अनुमानं तु हेतोः स्यात् अविनाभावनिश्चयात् ॥ १६५॥ यथा कार्य स्वभावो वाप्यन्यथाशङ्क्यसम्भवः । हेतुश्चानुपलम्भोऽयं तथैवेत्यनुगम्यताम् ॥१६६॥ प्रत्यक्षानुपलम्भश्च विधानप्रतिषेधयोः । अन्तरेणेह सम्बन्धमहेतुरिव लक्ष्यते ॥ १६७॥ प्रपञ्चोऽनुपलब्धेर्नापक्षे प्रत्यक्षवृत्तितः । प्रमाणं सम्भवाभावाद्विचारस्याप्यपेक्षणात् ॥ १६८ ॥ तुलोन्नामरसादीनां तुल्यकालतया न हि । नामरूपादिहेतुत्वं न च तद्व्यभिचारिता ॥ १६९ ॥ तादात्म्यं तु कथञ्चित् स्यात् ततो हि न तुलान्तयोः । सास्नाविषाणयोरेवं चन्द्रार्वाक्परभागयोः ॥ १७० ॥ उपलब्धेश्च हेतुत्वादन्तर्भावात् स्वभावतः । तयोरनुपलम्भेषु नियमो न व्यवस्थितः ॥ १७१ ॥ अभविष्यत्यसम्भाव्यो धर्मो धर्मान्तरे क्वचित् । शेषवद्धेतुरन्योऽपि गमकः सुपरीक्षितः ॥ १७२ ॥ एतेन पूर्ववद्वीत संयोग्यादौ कथा गता । तल्लक्षणप्रपञ्चश्च निषेद्धव्यो दिशाऽनया ॥ १७३ ॥ अन्यथानुपपन्नत्वरहिता ये विडम्बिताः । हेतुत्वेन परैस्तेषां हेत्वाभासत्वमीश्वते ॥ ९७४ ॥ विरोधादन्वयाभावाद् व्यतिरेकाप्रसिद्धितः । कृतकः क्षणिको न स्यात् नैकलक्षणहानितः ॥ १७५ ॥ सत्ता सम्प्रतिबद्धैव परिणामे क्रियास्थितेः । निर्व्यापारो हि भावः स्यान्नित्यत्वे वा निरन्वये ॥ १७६ ॥ अवस्थादेशकालानां भेदेऽभेदव्यवस्थितिः । या दृष्टा सोऽन्वयो लोके व्यवहाराय कल्पते ॥ १७७ ॥ सर्वसन्तानविच्छेदः सति हेतौ फलोदयः । अन्यथा नियमाभावादानन्तर्य विरुद्धयते ॥ १७८ ॥