________________
न्यायविनिश्चयः आकृतिभ्रमवद्यद्वद्विषमविलोकितम् ॥ १३९ ॥ न चर्तेऽर्थविदोऽर्थोऽर्थात् केवलो व्यवसीयते ॥ १३९३ ॥ भावान्तरसमारोपेऽभाविताकारगोचरः। समक्षसंविदोऽर्थानां सन्निधिं नातिशेरते ॥ १४०३ ॥ अणवः क्षणिकात्मानः किल स्पष्टावभासिनः । अतत्फलपरावृत्ताकारस्मृतिहेतवः ॥ १४१३ ॥ स्थूलस्पष्टविकल्पाथोः स्वयमिद्रियगोचराः। समानपरिणामात्मशब्दसङ्केतहेतवः ॥ १४२३ ॥ स्वभावव्यवसायेषु निश्चयानां स्वतो गतेः। नाशस्यैकार्थरूपस्य प्रतीतिर्न विरुद्ध्यते ॥ १४३३ ॥ व्यामोहशबलाकारवेदनानां विचित्रता। साकल्येन प्रकाशस्य विरोधः सम्प्रतीयते ॥ १४४३ ॥ सम्भावितान्यरूपाणां समानपरिणामिनाम् । प्रत्यक्षाणां परोक्षात्मा प्रमाणान्तरगोचरः॥१४५३ ।। प्रत्ययः परमात्मानमपि च प्रतिभासयेत् । सत्यं परिस्फुटं येन तत्र प्रामाण्यमश्नुते ॥ १४६३ ॥ आसादितविशेषाणामणूनामतिवृत्तितः । एकाकारविवेकेन नैकैकप्रतिपत्तयः॥ १४७३ ।। कालापकषपर्यन्तविवर्तातिशया गतिः। अशक्तरणुवत् सेयमनेकान्तानुरोधिनी ॥ १४८३ ॥ अंशग्रहविवेकत्वान्मन्दाः किमतिशेरते। निर्णयेऽनिर्णयान्मोहो बहिरन्तश्च तादृशः ॥१४९३॥ जीवः प्रतिक्षणं भिन्नश्चेतनो यदि नावृतः। सकलग्रहसामर्थ्यात्तथात्मानं प्रकाशयेत् ॥ १५०॥ तादात्म्यात् प्रत्यभिज्ञा न सदृशापरहेतुतः। अवस्थान्तर्विशेषोऽपि बहिरन्तश्च लक्ष्यते ॥१५१॥ सूक्ष्मस्थूलतरा भावाः स्पष्टास्पष्टावभासिनः । वितथेतरविज्ञाने प्रमाणेतरतां गते ॥१५२॥ यस्मिन्नसति यज्जातं कार्यकारणता तयोः। भेदिनां प्रत्यभिक्षेति रचितोऽयं शिलाप्लवः ॥ १५३ ॥ अन्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् । नान्यथानुपपन्नत्वं यत्र तत्र त्रयेण किम् ॥१५४॥ प्रत्येति न प्रमाहेतुं प्रत्येति पुनरप्रमाम् । प्रमाहेतुतदाभासभेदोऽयं सुव्यवस्थितः॥१५५॥ निययेन न गृह्णाति निःशङ्कचतुरस्रधीः। अन्यथाऽसम्भवेऽक्षाने ार्थश्चात्मव्यवस्थितः ॥१५६॥ प्रतिव्यूढस्तु तेनैव प्रभवोऽनलभ्यूभयोः । प्रत्यक्षेऽर्थे प्रमाणेन विकल्पेन प्रकल्पितः॥१५७॥ प्रत्यक्षानुपलम्भाभ्यां यदि तत्त्वं प्रतीयते । अन्यथाऽनुपपन्नत्वमतः किन्न प्रतीयते ॥१५८॥