________________
e
न्यायविनिश्चयविवरणे सत्प्रमेयत्वयोर्नास्ति सर्वथा नियमो यदि । अप्रवृत्तेः फलाभावात्तत्र वृत्तेनिषेधतः ॥ ११९३ ॥ प्रमाणमर्थसम्बन्धात् प्रमेयमसदित्यपि। केवलं ध्यान्ध्यमेवैतत् किन्न सन्तं समीक्ष्यते ॥१२०३॥ सत्प्रत्यक्षं परोक्षेऽर्थे साधनं त्रिविधं द्वयम् । हेत्वात्मनोः परं हेतुः तज्ज्ञानव्यवहारयोः ॥ १२१३ ॥ परसत्त्वमसत्ताऽस्यादर्शनं परदर्शनम् ।। सदसज्ज्ञानशब्दाश्च केवलं तन्निबन्धनाः ॥ १२२३ ॥ अग्निः स्वपररूपाभ्यां भावाभावात्मको यथा। अन्वयव्यतिरेकाभ्यां शब्दबुद्धयाऽवधार्यते ।। १२३३ ॥ अप्रमेयं प्रमेयं चेदसत्किन्न सदात्मकम् । अथ न व्यवहारोऽयं अन्यत्रापि निरंकुशः॥ १२४३ ।। सत्प्रत्यक्षं परोक्षार्थगतिस्तत्रैकलक्षणम् । साध्येऽसति विरोधोऽयमतस्तर्केण साध्यते ॥ १२५३ ॥ सर्वत्र परिणामादौ हेतुः सत्त्वादिन्यथा । शब्देऽपि साधयेत् केन तस्मान्नान्वयतो गतिः॥ १२६३ ॥ सिद्धमर्थक्रियाऽसत्त्वं सर्वथाऽविचलात्मनः । निरन्वयविनाशेऽपि साधनं नोपचारतः॥ १२७३ ।। अवश्यं बहिरन्तर्वा प्रमाणमवगच्छताम् । सिद्धमेकमनेकात्मपरिणामव्यवस्थितम् ॥ १२८३ ।। परापरविवेकैकस्वभावपरिनिष्ठितः। परमाणुरतोऽन्यो वा बहिरन्तर्न बुद्ध्यते ॥ १२९३ ॥ अर्थस्यानेकरूपस्य कदाचित् कस्यचित् क्वचित् । शक्तावतिशयाधानमपेक्षातः प्रकल्प्यते ॥ १३०३ ॥ स्वभावातिशयाधानं विरोधान्न परीक्ष्यते । तत्र सिद्धमसिद्धं वा तस्माजातिर्न हेतुतः ॥ १३१३ ॥ सन्निधानं हि सर्वस्मिन्नव्यापारेऽपि तत्समम् । न चेत् स परिवर्तेत भाव एव फलात्मना ॥ १३२३ ॥ परिणामस्वभावः स्याद्भावस्तत्रानपेक्षणात् । अयमर्थक्रियाहेतुरन्तरेण निरन्वयम् ॥ १३३३ ॥ भेदाभेदात्मनोऽर्थस्य भेदाभेदव्यवस्थितिः। लोकतो वानुगन्तव्या सभागविसभागवत् ॥ १३४३ ॥ [सिद्धमर्थक्रिया' (१२५) इत्यादि 'लोकतो वानु' (१३४) इत्यन्तं विवरणश्लोकाः]। सामान्यभेदरूपार्थसाधनस्तद्गुणोऽखिलः। अन्यथाऽनुपपन्नत्वनियमस्यात्र सम्भवात् ॥ १३५३ ॥ प्रत्यक्षेऽपि समानान्यनिर्णयः प्रतिरुद्ध्यते । यथा क्षणक्षयेऽणूनां इत्यात्माप्तौ विडम्बयेत् ॥ १३६३ ॥ अपृथग्वेद्यनियमादभिन्नाः परमाणवः ॥ १३७ ॥ देशकालान्तरव्याप्तिः स्वभावःक्षणभङ्गिनाम् । सम्प्रत्यस्तमिताशेषनियमा हि प्रतीतयः॥ १३८॥ अग्रहः क्षणभङ्गोऽपि ग्रहणे किमनिश्चयः।