________________
न्यायविनिश्चयः
साधनं प्रकृताभावेऽनुपपन्नं ततोऽपरे । विरुद्धासिद्धसन्दिग्धा अकिञ्चित्करविस्तराः ॥ ९९३ ॥ तथार्थेऽसत्यसम्भूष्णुधर्मो न बहिरङ्गतः। सर्वथैकान्तविश्लेषे साध्यसाधनसंस्थितेः ॥ १००३ ॥ एकं चलं चलैर्नान्यैर्नष्टैनष्टं न चापरैः। आवृतैरावृतं भागै रक्तै रक्तं विलोक्यते ॥ १०१३ ॥ अन्यथा तदनिर्देश्यं नियमस्याप्यसम्भवात् । वृत्तावपि न तस्येदं विश्वरूपं विभाव्यते ॥ १०२३ ॥ सम्यग्ज्ञानं व्यवस्थाया हेतुः सर्वत्र तत्पुनः । प्रत्यक्षं यदि बाध्येत लक्षणं प्रतिरुद्ध्यते ॥ १०३३ ॥ साङ्कर्य व्यवहाराणां सन्निवेशविशेषतः। नानकपरिणामोऽयं यदि न व्यवतिष्ठते ॥ १०४३ ॥ सत्यप्येकार्थकारित्वेऽसंश्लेषपरिणामतः। इन्द्रियादिषु नैकत्वं यदि किं वा विरुद्ध्यते ॥ १०५३ ॥ तदनेकार्थसंश्लेषविश्लेषपरिणामतः । स्कन्धस्तु सप्रदेशोऽशी बहिः साक्षात्कृतो जनैः ॥ १.६३ ॥ नानाकारैकविज्ञानं स्वाधारे बदरादिवत् । तादात्म्येन पृथग्भावे सति वृत्तिर्विकल्प्यते ॥ १०७३ ।। दर्शनादर्शने स्यातां सप्रदेशाप्रदेशयोः। विरोधानुपलम्भेन किल स्कन्धो विरुद्ध्यते ॥ १०८३ ॥ सम्भवत्यपि मात्राणां दर्शनादर्शनस्थितिः। , . . इदं विज्ञानमन्यद्वा चित्रमेकं यदीक्ष्यते ॥ १०९३ ॥ अवान्तरात्मभेदानामानन्यात् सकलाग्रहे । नामाकारणसामर्थ्याज्ज्ञानं भेदेन भासते ॥ ११०३ ॥ भेदसामर्थ्यमारोप्य प्रत्यासत्तिनिवन्धनम् । चोद्यमहति नीलादौ तुल्यं तद्विषयाकृति ॥ १११३ ॥ सर्वथा श्लेषविश्लेषे नाणूनां स्कन्धसम्भवः । अन्यथा नाप्रदेशादीत्यपरैर्दत्तमुत्तरम् ।। ११२३ ॥ नैरन्तयं निरंशानां स्वभावानतिरेचनम् ॥ ११३ ॥ चित्रचैत्तविचित्राभदृष्टभङ्गप्रसङ्गतः। स नैकः सर्वथा श्लेषात् नानेको भेदरूपतः ॥ ११४ ॥ स्कन्धो मात्रानुरोधेन व्यवहारेऽवधार्यते। .. सङ्ख्यादिसमभावेऽपि तत्स्वभावविवेकतः ॥ ११५ ॥ अतादात्म्यस्वभावे वा ह्यानर्थक्यादलं परैः ॥ १९५३ ॥ स्पर्शोऽयं चाक्षुषत्वान्न न रूपं स्पर्शनग्रहात् । रूपादीनि निरस्यान्यं न चाभ्युपलभेमहि ॥ ११६३ ॥ सामग्रीविहितज्ञानदर्शिताकारभेदिनः। प्रायेणैकस्य ताद प्यं पृथसिद्धौ प्रसङ्गतः ॥ १९७३ ॥ अल्पभूयःप्रदेशकस्कन्धभेदोपलम्भवत् । अन्यथा स्वात्मनि ज्ञानमन्यथा चानुमीयते ॥ ११८३ ॥