________________
न्यायविनिश्चयविवरणे जातिस्मराणां संवादादपि संस्कारसंस्थितः। अन्यथा कल्पयन् लोकमतिकामति केवलम् ॥ ७९३॥ नाऽस्मृतेरभिलाषोऽस्ति न विना सापि दर्शनात् । तद्धि जन्मान्तरान्नायं जातमात्रेऽपि लक्ष्यते ॥ ८०३ ॥ गर्भे रसविशेषाणां ग्रहणादिति कश्चन । तदादावभिलाषेण विना जातु यदृच्छया ॥ ८१३ ॥ तत्संस्कारान्वयेक्षत्वाद् भूयो भूयः प्रवर्तितः। कोशपानं विधेयं न समं भूयस्तथा दृशः॥ ८२३ ॥ रूपादिदर्शनाभावात् तत्सम्बन्धस्मृतिः कथम् । ... नावश्यं चक्षुरादीनां सर्वत्रोन्मीलनादयः ॥ ८३३ ॥ तथा रागादयो दृष्टाः सङ्कल्पाद्यविनाभुवः ॥ ८४ ॥ तदाहारादिसामान्यस्मृतितद्विप्रमोषयोः।। भावोऽभावश्च वृत्तीनां भेदिष्विह च दृश्यते ॥ ८५॥ तस्मात् संसारवैचित्र्यं नियमान विहन्यते । न च कश्चिद्विरोधोऽस्ति देहान्तरपरिग्रहे ॥ ८६ ॥ तदभावे हि तद्भावप्रतिबंधो न यक्तिमान ॥८६॥ ['जातिस्मराणां' (७९) इत्यादि 'तदभावे हि' (८६३) इत्यन्तं व्याख्यानश्लोकाः] बुद्धः पुरुषतन्त्रत्वे नित्यत्वात्तदनुक्रिया। न भवेत्परिणामित्वाद्विनाशानुपलक्षणात् ॥ ८७३ ॥ परस्याप्यविरोधश्चेत् फलहेतुव्यपोहतः। प्रवृत्तेर्व्यवहाराणामविनाशेऽपि सम्भवात् ।। ८८३ ॥ यथाऽजनकजन्येषु न सन्ति कलशादयः । तथा जनकजन्येषु ततस्तत्त्वं निरन्वयम् ॥ ८९३ ॥ तत्र नाशादिशब्दाश्च समिताः समनेन्तरे ।। ९०॥ अन्यस्यान्यो विनाशः किं किन्न स्यादचलात्मकः। तद्विवेकेन भावाच्चेत् कथन्नातिप्रसज्यते ॥ ९१ ॥ सदापि सर्वभावानां परस्परविवेकतः। न चानन्तरमित्येव भावस्तव्यपदेशभाक् ॥ ९२॥ तत्प्रतीत्यसमुत्पादात् भावश्चेत् स कुतो मतः। सादृश्यात् प्रत्यभिज्ञानं न सभागनिबन्धनम् ॥ ९३ ॥ विशेषकल्पनायां स्यात् परस्याव्यभिचारिता। तस्मात् सभागसन्तानकल्पनापि न युज्यते ॥ ९४ ॥ न चेत् स परिवर्तेत हेतुरेव फलात्मना ॥९४३ ॥ तस्माद्भावविनाशोऽयं फलीभावः तदग्रहः। तद्ग्रहः प्रतिषेधोऽस्य केवलं तन्निबन्धनः ॥ ९५३ ॥ अन्यथात्वं यदीष्येत हेतोरपि फलात्मनः। अन्य एवेति किन्नेष्टमिति केचित्प्रचक्षते ॥ ९६३ ॥ अन्यथात्वं न चेत्तस्य भवेद् ध्रौव्यमलक्षणात् । अभावस्याप्यभावोऽपिकिन्नेत्यन्ये प्रचक्षते ॥ ९७३ ॥ स्वस्वभावस्थितो भावो भावान्तरसमुद्भवे । नष्टो वा नान्यथाभूतः ततो नातिप्रसज्यते ॥ ९८३ ॥