________________
न्यायविनिश्चयः
५३ तदनेकात्मकं तवं न हि ज्ञानात्मना क्वचित् । शरीरग्रहणं येन तद्गुणः परिकल्प्यते ॥ ६ ॥ गुणानां गुणसम्बन्धो गन्धादेः सङ्ख्यया ग्रहात् । तादात्म्यं केन वार्येत नोपचारप्रकल्पनम् ॥ ६१ ॥ अत्रान्यत्रापि तुल्यत्वात् आधारस्यैकरूपतः। तत्रैकत्वं प्रसज्येत संख्यामात्रं यदीष्यते ॥ २ ॥ नानात्मविभ्रमादेवं न पृथग्गुणिनो गुणाः। प्रसक्ता रूपभेदाच्चेत् भेदो नानात्वमुच्यते ॥ ६३ ॥ एकता भावसाम्याच्चेत् उपचारस्तथा भवेत् । भेदेऽपि वस्तुरूपत्वात् न चेदन्यत्र तत्समम् ॥ ६४ ।। एतने भिन्नविज्ञानग्रहणादिकथा गता ॥ ६४३ ॥ जीवच्छरीरधर्मोऽस्तु चैतन्यं व्यपदेशतः। यथाऽचैतन्यमन्यत्रेत्यपरः प्रतिपन्नवान् ॥ ६५३ ॥ अप्रत्यक्षेऽपि देहेऽस्मिन् स्वतन्त्रमवभासनात् । प्रत्यक्षं तद्गुणो शानं नेति सन्तः प्रचक्षते ॥ ६६३ ॥ तदृष्टिहानिरन्येषामदृष्टपरिकल्पना ॥ ६७॥ स्वातन्त्र्यदृष्टभूतानामदृष्टेर्गुणभावतः।
तत्सारतरभूतानि कायापायेऽपि कानिचित् ॥ ६८॥ ['तस्मादनकरूपस्य' (५८) इत्यादि 'स्वातन्त्र्यदृष्टेः' (६८) इत्यन्तं व्याख्यानश्लोकाः]
कार्यकारणयोर्बुद्धिकाययोस्तन्निवृत्तितः।। कार्याभावगते स्ति संसार इति कश्चन ॥ ६९ ॥ तस्यापि देहानुत्पत्तिप्रसङ्गोऽन्योन्यसंश्रयात् । उत्तरोत्तरदेहस्य पूर्वपूर्वधियो भवः ॥ ७० ॥ अत एव विरुद्धत्वादलं प्रायस्तथा भवन् । तन्न कारणमित्येव कार्यसत्तानिवर्तकम् ।। ७१ ॥ स्व निवृत्तौ तथा तक्षो गोपुराट्टालकादिषु ॥ ७२ ॥ युगपद्भिन्नरूपेण बहिरन्तश्च भासनात् । न तयोः परिणामोऽस्ति यथा गेहप्रदीपयोः॥ ७२१॥ प्रमितेऽप्यप्रमेयत्वाद्रिकतेरविकारिणि । निर्हासातिशयाभावानियसातिशये धियः॥ ७३३ ॥ बलीयस्यबलीयस्त्वाद्विपरीते विपर्ययात् । काये तस्मान्न ते तस्य परिणामा सुखादयः॥ ७४३ ॥ एतदत्र घटादीनां न तु जातुचिदीक्ष्यते । तुल्यश्च गुणपक्षेण तत्तथा परिणामतः ।। ७५३ ॥ अक्षादीनां विकारोऽयमात्मकर्मफलं भवेत् । अन्यथानियमायोगात् प्रतीतेरपलापतः ॥ ७६३ ॥ कल्पनायामसामर्थ्यात् ततस्तद्विकृत ऋते । पारम्पर्येण साक्षाच्च नास्ति विज्ञानविक्रिया ॥ ७७३ ॥ कारणं नाक्षसङ्घातस्तत्प्रत्येकं विना भवात् । विकल्पानां विशेषाञ्च तत्तद्वति विरोधतः॥ ७८३॥..