________________
न्यायविनिश्चयविवरणे तदर्थदर्शनाभावात् मिथ्यार्थप्रतिभासिषु । शानाकारेषु सङ्कत इति केचित्प्रचक्षते ॥ ४० ॥ वागर्थदृष्टिभागेषु गृहीतग्रहणेष्वपि । सत्याकारावबोधेषु सङ्कतमपरे विदुः ॥४१॥ न भेदेषु न सामान्ये केवले न च तद्वति । फलाभावादशक्तेश्च समयः सम्प्रवर्तते ॥ ४२ ॥ स एवायं समश्चेति प्रत्ययस्तन्निबन्धनः। वितथोऽवितथश्चापि तत्रैकत्वनिबन्धनः ॥ ४३ ॥ तथा तत्प्रतिषेधेऽपि वैलक्षण्यादिशब्दवत् ॥ ४३३ ॥ तत्समानासमानेषु तत्प्रवृत्तिनिवृत्तये। संक्षेपेण क्वचित्कश्चिच्छब्दः सङ्कतमश्नुते ॥ ४४३॥ तथाऽनेकोऽपि तद्धर्मनानात्वप्रतिपादने । एकत्र बहुभेदानां सम्भवान्मेचकादिवत् ॥ ४५३ ॥ समानं केनचित्किञ्चिदपरञ्च तथाविधम् । भेदविद धर्मिणः कृत्वा समानाकारकल्पना ॥ ४६३ ॥ तदन्यत्र समानात्मा स एवेति तथाविधे। व्यवच्छेदस्वभावेषु विशेषणविशेष्यधीः ॥ ४७३ ।। तत्तन्निमित्तकः शब्दस्तथान्यत्रापि योज्यताम् । ततः सत्तेति साध्यन्ते सन्तो भावाः स्वलक्षणाः ॥ ४८३ ॥ ['सहशब्दार्थ (३९) इत्यादि 'ततः सत्तेति' (४८३) इत्यन्तं व्याख्यानश्लोकाः] नानैकवचनाः शब्दाः तथा सङ्कोतिता यतः॥४९॥ प्रत्यभिज्ञा द्विधा काचित्सादृश्यविनिबन्धना। प्रमाणपूर्विका नान्या दृष्टिमान्द्यादिदोषतः॥ ५० ॥ अस्ति प्रधानमित्यत्र लक्षणासम्भवत्वतः ॥ ५०३ ॥ तत्रान्यत्रापि वासिद्धं यद्विना यद्विहन्यते । तत्र तद्गमकं तेन साध्यधर्मी च साधनम् ॥ ५१३ ॥ अप्रत्यक्षः सुषुप्तादौ बुद्धःप्रत्यक्षलक्षणः। जीवतीति यतः सोऽयं जीव आत्मोपयोगवान् ॥ ५२३ ॥ कर्मणामपि कर्ताऽयं तत्फलस्यापि वेदकः। संसरत् परिणामात्तो मुच्यते वा ततः पुनः ॥ ५३३ ।। आत्मादिव्यतिरेकेण कोऽपरोऽध्यक्षतां व्रजेत् । नानायं क्रमशो वृत्तेर्न चेदत्राभिधास्यते ॥ ५४३ ॥ भूतानामेव केषाञ्चित् परिणामविशेषतः। कायश्चित्कारणं सोऽपि कथं संसारमुक्तिभाक् ॥ ५५३ ।। शक्तिभेदे तथा सिद्धिः संज्ञा केन निवार्यते ॥५६॥ यथा भूताविशेषेऽपि प्रज्ञादिगुणसंस्थितिः। तथा भूताविशेषेऽपि भवेद्भूतादिसंस्थितिः॥५७॥ तस्मादनेकरूपस्य कथञ्चिद् ग्रहणे पुनः। . तद्रूपं भेदमारोप्य गुण इत्यपि युज्यते ॥५८॥ यदि स्वभावाद्भावोऽयं भिन्नो भावः कथं भवेत् । अनवस्थानतोऽभेदे सकलग्रहणं भवेत् ॥ ५९॥