________________
न्यायविनिश्चयः सदृशात्मनि सम्बन्धग्रहे भूयस्तथाविधे। प्रत्यभिज्ञादिना सिद्धयेत् प्रायो लोकव्यवस्थितिः ॥ १९॥ तद्वतोऽनुपकारेऽपि भेदे कथमुपाधयः॥ २० ॥ नोपधयो न तद्वन्तो भिन्नाभिन्ना अपि स्वयम् । जात्यन्तरे तथाभूते सर्वथा दर्शनादपि ॥ २१॥ तद्वत्यचोदिते शक्तेऽशक्ताः किं तदुपाधयः। चोद्यन्ते शब्दलिङ्गाभ्यां समं तैस्तस्य लक्षणे ॥ २२ ॥ सम्बन्धो यत्र तत्सिद्धेरन्यतोऽप्रतिपत्तितः। अनुमानमलं किं तदेव देशादिभेदवत् ॥ २३ ॥ एतेन भेदिनां भेदसंवृत्तेः प्रतिपत्तितः। तोकं कल्पयन् वार्यः समाना इति तद्ग्रहात् ॥ २४ ॥ अतद्धतुफलापोहः सामान्यं चेदपोहिनाम् । सन्दर्यते तथा बद्धया न तथाऽप्रतिपत्तितः॥२५॥ यन्न निश्चीयते रूपं जातुचित्तस्य दर्शनम् । यथानिश्चयनं तस्य दर्शनं तद्वशात्किल ॥ २६ ॥ समानपरिणामश्चेदनेकत्र कथं दृशिः। न चेद् विशेषाकारो वा कथं तद्यपदेशभाक् ॥ २७ ॥ सदृशासदृशात्मानः सन्तो नियतवृत्तयः। तत्रैकमन्तरेणापि सङ्केताच्छब्दवृत्तयः ॥ २८ ॥ तत्रैकमभिसन्धाय समानपरिणामिषु । समयस्तत्प्रकारेषु प्रवत्तेति साध्यते ॥ २९ ॥ तजातीयमतः प्राहुर्यतः शब्दा निवेशिताः ॥ २९ ॥ नानेकत्र न चैकत्र वृत्तिः सामान्यलक्षणम् । अतिप्रसङ्गतः तत्त्वादन्यत्रापि समानतः ॥ ३०३ ॥ व्यावृत्तिं पश्यतः कस्मात् सर्वतोऽनवधारणम् । सादृश्याद्यदि साधूक्तं तत्किं व्यावृत्तिमात्रकम् ॥ ३१३ ॥ एकान्ते चेत्तथाऽदृष्टरिष्टं वक्तुरकौशलम् । सर्वेकत्वप्रसङ्गो हि तदृष्टं भ्रान्तिकारणम् ॥ ३२३ ॥ नोचेद्विभ्रमहेतुभ्यः प्रतिभासोऽन्यथा भवेत् । तदकिञ्चित्करत्वं न निश्चिनोति स किं पुनः ॥ ३३३ ॥ तथापि दर्शनं न स्याद्भिन्नाकारप्रसङ्गतः। न च दृष्टेविशेषो यः प्रतिभासात् परो भवेत् ॥ ३४३ ॥ प्रतिभासभिदैकत्र तदनेकात्मसाधनम् । अदृष्टिकल्पनायां स्यादचैतन्यमयोगिनाम् ॥ ३५३ ॥ तस्मादभेद इत्यत्र समभावं प्रचक्षते। नेक्षते नाविरोधोऽपि न समानाः स्युरन्यथा ॥ ३६३ ॥ अक्षशानेऽपि तत्तुल्यं अनुमानवदिष्यते ॥ ३७॥ ततः सम्भाव्यते शब्दः सत्यार्थप्रत्ययान्वितः। सत्यानृतार्थताऽभेदो विवक्षाव्यभिचारतः ॥ ३८॥ सहशब्दार्थदृष्टावप्यविकल्पयतः कथम् । समयः तत्प्रमाणत्वे क्व प्रमाणे विभाव्यताम् ॥ ३९ ॥