________________
द्वितीयः प्रस्तावः
साधनात्साध्य विज्ञानमनुमानं तदत्यये । विरोधात्वचिदेकस्य विधानप्रतिषेधयोः ॥ १ ॥ प्रत्यक्षं परमात्मानमपि च प्रतिभासयेत् । सत्यं परिस्फुटं येन तथा प्रामाण्यमश्नुते ॥ २ ॥ साध्यं शक्यमभिप्रेतमप्रसिद्धं ततोऽपरम् । साध्याभासं विरुद्धादि साधनाविषयत्वतः ॥ ३ ॥ जातेर्विप्रतिपत्तीनां सत्ता साध्याऽनुषज्यते । तथेष्टत्वाददोषोऽयं हेतोर्दोषत्रयं यदि ॥ ४ ॥ भ्रान्तेः पुरुषधर्मत्वाद् यथा वस्तुबलागमम् । प्रपेदे सर्वथा सर्ववस्तुसत्तां प्रतिक्षिपन् ॥ ५ ॥ भावनादभ्युपैति स्म भावधर्ममवस्तुनि ॥ ५३ ॥ असिद्धधर्मिधर्मत्वेऽप्यन्यथानुपपत्तिमान् । हेतुरेव यथा सन्ति प्रमाणानीष्टसाधनात् ॥ ६३ ॥ इष्टसिद्धिः परेषां वा तत्र वक्तुरकौशलम् ॥ ७ ॥ अतीतानागतादीनामपि सत्ताऽनुषङ्गवत् । अतश्च बहिरर्थानामपि सत्ता प्रसाध्यते ॥ ८ ॥ तदभावेऽपि तद्वादस्यान्यथानुपपत्तितः । अक्षादेरप्यदृश्यस्य तत्कार्यव्यतिरेकतः ॥ ९॥ एतेनातीन्द्रिये भावकार्यकारणतागतेः ।
तत्सत्ताव्यवहाराणां प्रत्याख्यानं निवारितम् ॥ १० ॥ व्याधिभूतग्रहादीनां विप्रकर्षेऽपि गम्यते । कुतश्चित्सदसद्भावविरोधप्रभवं तथा ॥ ११ ॥ प्रमाणमर्थे संवादाद् भ्रान्तिरध्यवसायतः । प्रत्यक्षाभेऽप्रसङ्गश्चेत् तथाऽनभिनिवेशतः ॥ १२ ॥ दूरदूरतरादिस्थैरेकं वस्तु समीक्ष्यते ।
नानाभं स्यात्तथा सत्यं न चेद्रस्त्वनुरोधि किम् ॥ १३ ॥ तस्मादनुमितेरर्थविषयत्वनिराकृतिः ।
प्रतिभासमिदायाः किमेकस्यानेकतो ग्रहात् ॥ १४ ॥ समान परिणामात्मसम्बन्धप्रतिपत्तितः । तत्राशक्तिफलाभावौ न स्यातां लिङ्गलिङ्गिनोः ॥ १५ ॥ न भेदोऽभेदरूपत्वान्नाभेदो भेदरूपतः । सामान्यं च विशेषाश्च तदपोद्धारकल्पनात् ॥ १६॥ संसर्गे नास्ति विश्लेषाद्विश्लेषोऽपि न केवलः । संसर्गात्सर्वभावानां तथा संवित्तिसम्भवात् ॥ १७ ॥ [ एतौ (१६ - १७) अन्तरश्लोकौ ]
तद्व्याप्तिव्यतिरेकाभ्यां मतं सामान्यदूषणम् । समानपरिणामे न तदेकस्यानुपायतः ॥ १८ ॥