________________
न्यायविनिश्चयः अथैकं सर्वविषयमस्तु किंवाक्षबुद्धिभिः । क्रमोत्पत्तौ सहोत्पत्तिविकल्पोऽयं विरुध्यते ॥ १५९३ ।। अध्यक्षादिविरोधः स्यात्तेषामनुभवात्मनः। वेदनादिवदिष्टं चेत्कथं नातिप्रसज्यते ॥ १६०३ ॥ प्रोक्षितं भक्षयेन्नेति दृष्टा विप्रतिपत्तयः। लक्षणं तु न कर्तव्यं प्रस्तावानुपयोगिषु ॥ १६१३ ॥ अध्यक्षमात्मवित्सर्वज्ञानानामभिधीयते। स्वापमूर्छाद्यवस्थोऽपि प्रत्यक्षी नाम किं भवेत् ॥ १६२३ ॥ विच्छेदे हि चतुःसत्यभावानादिविरुध्यते ॥ १६३ ॥ प्रायशो योगिविज्ञानमेतेन प्रतिवर्णितम् ॥ १६३३ ॥ श्रोत्रादिवृत्तिः प्रत्यक्षं यदि तैमिरिकादिषु । प्रसङ्गः किमतवृत्तिस्तद्विकारानुकारिणी ॥ १६४३ ॥ तथाक्षार्थमनस्कारसत्त्वसम्बन्धदर्शनम् । व्यवसायात्मसंवाद्यव्यपदेश्यं विरुध्यते ॥ १६५३ ॥ नित्यः सर्वगतो ज्ञः सन् कस्यचित्समवायतः। शाता द्रव्यादिकार्थस्य नेश्वरज्ञानसंग्रहः ॥ १६६३ ॥ लक्षणं समतावान् विशेषोऽशेषगोचरम् ।
अक्रमं करणातीतमकलङ्क महीयसाम् ॥ १६७३ ॥ सात्वा विज्ञप्तिमात्रं परमपि च बहिर्भासि भावप्रवादं
चक्रे लोकानुरोधात्पुनरपि सकलं नेति तत्त्वं प्रपेदे । न शाता तस्य तस्मिन्न च फलमपरं ज्ञायते नापि किञ्चि
दित्यश्लीलं प्रमत्तः प्रलपति जडधीराकुलं व्याकुलातः॥१६८३॥
प्रत्यक्षप्रस्ताव: