________________
न्यायविनिश्चयविवरणे
प्रतिक्षणं विशेषा न प्रत्यक्षाः परमाणुवत् । अतदाभतया बुद्धराकारविवेकवत् ॥ १३९ ॥ अत्यन्ताभेदभेदौ न तद्वतो न परस्परम् । दृश्यादृश्यात्मनोर्बुद्धिनिर्भासक्षणभङ्गयोः ॥ १४० ॥ सर्वथार्थक्रियायोगात् तथा सुप्तप्रबुद्धयोः । अंशयोर्यदि तादात्म्यमभिशानमनन्यवत् ॥ १४१ ॥ संयोगसमवायादिसम्बन्धाद्यदि वर्तते । अनेकत्रैकमेकत्रानेकं वा परिणामिनः ॥ १४२॥ अतद्धतुफलापोहमविकल्पोऽभिजल्पति ॥ १४२३ ॥ - समानाकारशून्येषु सर्वथानुपलम्भतः। तस्य वस्तुषुभावादि साकारस्यैव साधनम् ॥ १४३३ ॥ न विशेषा न सामान्यं तान् वा शक्त्या कयाचन । तद्विभर्ति स्वभावोऽयं समानपरिणामिनाम् ॥ १४४३ ॥ अप्रसिद्ध पृथक्सिद्धमुभयात्मकमञ्जसा ॥ १४५ ॥ सन्निवेशादिवद् वस्तु सांवृतं किन्न कल्प्यते । समग्रकरणादीनामन्यथा दर्शने सति ॥ १४६॥ सर्वात्मनां निरंशत्वात् सर्वथा ग्रहणं भवेत्। नौयानादिषु विभ्रान्तो न न पश्यति बाह्यतः॥ १४७॥ न च नास्ति स आकारः ज्ञानाकारेऽनुषङ्गतः। तस्माद् दृष्टस्य भावस्य न दृष्टस्सकलो गुणः ॥ १४८ ॥ प्रत्यक्षं कल्पनापोढं प्रत्यक्षादिनिराकृतम् । अध्यक्षलिङ्गतस्सिद्धमनेकात्मकमस्तु सत् ॥ १४९ ॥ सत्यालोकप्रतीतेऽर्थे सन्तः सन्तु विमत्सराः॥ १४९३ ॥ नित्यं सर्वगतं सत्त्वं निरंशं व्यक्तिभिर्यदि । व्यक्तं व्यक्तं सदा व्यक्तं त्रैलोक्यं सचराचरम् ॥ १५०३ ॥ सत्तायोगाद्विना सन्ति यथा सत्तादयस्तथा । सर्वेऽर्था देशकालाश्च सामान्यं सकलं मतम् ॥ १५१३ ॥ सर्वभेदप्रभेदं सत् सकलाङ्गशरीरवत् ॥ १५२ ॥ तत्र भावाः समाः केचिन्नापरे चरणादिवत् । एकानेकमनेकान्तं विषमञ्च समं यथा ॥ १५३॥ तथा प्रमाणतः सिद्धमन्यथाऽपरिणामतः। अविकल्पकमभ्रान्तं प्रत्यक्षाभं पटीयसाम् ॥ १५४॥ अविसंवादनियमादक्षगोचरचेतसाम् । सर्वथा वितथार्थत्वं सर्वेषामभिलापिनाम् ॥ १५५ ॥ ततस्तत्त्वव्यवस्थानं प्रत्यक्षस्येति साहसम् ॥ १५५३ ॥ अक्षशानानुजं स्पष्टं तदनन्तरगोचरम् । प्रत्यक्ष मानसं चाह भेदस्तत्र न लक्ष्यते ॥ १५६३ ॥ अन्तरेणेदमक्षानुभूतं चेन्न विकल्पयेत् ।। सन्तानान्तरवच्चेतः समनन्तरमेव किम् ॥ १५७३ ॥ शष्कुलीभक्षणादौ चेत्तावन्त्येव मनांस्यपि । यावन्तीन्द्रियचेतांसि प्रतिसन्धिर्न युज्यते ॥ १५८३ ॥