________________
न्यायविनिश्चयः
तथाऽयं क्षणभङ्गी न ज्ञानांशः सम्प्रतीयते । अर्थाकारविवेको न विज्ञानांशो यथा क्वचित् ॥ ११९ ॥ तद्भावः परिणामः स्यात्सविकल्पस्य लक्षणम् । तदेव वस्तु साकारमनाकारमपोद्धृतम् ॥ १२०॥ भेदानां बहुभेदानां तत्रैकत्रापि सम्भवात् ॥ १२०३ ॥ अन्वयोऽन्यव्यवच्छेदो व्यतिरेकः स्वलक्षणम् । ततः सवर्ण व्यवस्थेति नृत्येकाको मयूरवत् ॥ १२१६ ॥ प्रामाण्यं नागृहीतेऽर्थे प्रत्यक्षेतरगोचरौ। भेदाभेदौ प्रकल्प्येते कथमात्मविकल्पकैः ॥ १२२३ ॥ उत्पादविगमध्रौव्यद्रव्यपर्यायसङ्ग्रहम् । सद्भिन्नप्रतिभासेन स्याद्भिन्नं सविकल्पकम् । अभिन्नप्रतिभासेन स्यादभिन्नं खलक्षणम् ॥ १२४ ॥ विरुद्धधर्माध्यासेन स्याद्विरुद्धं न सर्वथा ॥ १.४३ ॥ असम्भवदतादात्म्यपरिणामप्रतिष्ठितम् । समानार्थपरावृत्तमसमानसमन्वितम्॥ १२५३ ॥ प्रत्यक्षं बहिरन्तश्च परोक्षं स्वप्रदेशतः। सुनिश्चितमनेकान्तमनिश्चितपरापरैः ॥ १२६३ ॥ सन्तानसमुदायादिशब्दमात्रविशेषतः ॥ १२७ ॥ तथा सुनिश्चितस्तैस्तु तत्त्वतो विप्रशंसतः। प्रत्यभिक्षाविशेषात्तदुपादानं प्रकल्पयेत् ॥ १२८ ॥ मन्योन्यात्मपरावृत्तभेदाभेदावधारणात् । मिथ्याप्रत्यवमर्शेभ्यो विशिष्टात् परमार्थतः॥ १२९ ॥ तथा प्रतीतिमुल्लङ्घय यथास्वं स्वयमस्थितेः। नानैकान्तग्रहग्रस्ता नान्योन्यमतिशेरते ॥ १३०॥ शब्दादेरुपलब्धस्य विरुद्धपरिणामिनः । पश्चादनुपलम्भेऽपि युक्तोपादानवद्गतिः ॥ १३१ ॥ तस्यादृष्टमुपादानमदृष्टस्य न तत्पुनः । अवश्य सहकारीति विपर्यस्तमकारणम् ॥ १३२॥ तदेवं सकलाकारं तत्स्वभावैरपोद्धृतैः । निर्विकल्पं विकल्पेन नीतं तत्त्वानुसारिणा ॥ १३३ ॥ समानाधारसामान्यविशेषणविशेष्यताम् ॥ १३३३ ॥ पत्र रष्टविपर्यस्तमयुक्तं परिकल्पितम् । मिथ्याभयानकग्रस्तैमृगैरिव तपोवने ॥ १३४३ ॥ यस्यापि क्षणिकं ज्ञानं तस्यासन्नादिभेदतः। प्रतिभासभिदां धत्तेऽसकृत्सिद्धं स्वलक्षणम् ॥ १३५३ ॥ विलक्षणार्थविज्ञाने स्थूलमेकं स्वलक्षणम् । तथा ज्ञानं तथाकारमनाकारनिरीक्षणे ॥ १३६३ ॥ अन्यथार्थात्मनोस्तत्त्वं मिथ्याकारैकलक्षणम् ॥ १३७॥ विज्ञानप्रतिभासेऽर्थविवेकाप्रतिभासनात् । विरुद्धधर्माध्यासः स्याव्यतिरेकेण चक्रकम् ॥ १३८ ॥