________________
न्यायविनिश्चयविवरणे अत्र मिथ्याविकल्पौधैरप्रतिष्ठानकैरलम् ॥ ९८३ ॥ अत्यासन्नानसंसृष्टानणूनेवाक्षगोचरान् ।। अपरः प्राह तत्रापि तुल्यमित्यनवस्थितिः ।। ९९३ ॥ तत्रापि तुल्यजातीयसंयोगसमवायिषु । अत्यक्षेषु ध्रुवेष्वन्यदध्यक्षमपरे विदुः ॥१००३ ॥ कारणस्याक्षय तेषां कार्यस्योपरमः कथम् ॥ १०१।। समवायस्य वृक्षोऽत्र शाखास्वित्यादिसाधनैः । अनन्यसाधनैः सिद्धिरहो लोकोत्तरा स्थितिः ॥ १०२ ॥ अध ऊर्ध्वविभागादिपरिणामविशेषतः। तानेव पश्यन् प्रत्येति शाखा वृक्षेऽपि लौकिकः ॥ १०३ ॥ तुलितद्रव्यसंयोगे स्थूलमर्थान्तरं यदि । तत्र रूपादिरन्यश्च साक्षरीक्ष्येत सादरैः ॥ १०४ ॥ गौरवाधिक्यतत्कार्यभेदाश्चा सूक्ष्मतः किल । अतौल्यादर्थराशेस्तद्विशेषानवधारणम् ॥ १०५ ॥ ताम्रादिरक्तिकादीनां समितक्रमयोगिनाम् । कथमातिलकात् स्थूलप्रमाणानवधारणे ॥ १०६ ॥ अल्पभेदाग्रहान्मानमणूनामनुषज्यते । अंशुपातानुमादृष्टेरन्यथा तु प्रसज्यते ॥ १०७ ॥ क्षीराद्यैरविजातीयैः प्रक्षिप्तैः क्रमशो घटः। तावद्भिरेव पूर्यत यावद्भिर्न विपर्ययैः ॥ १०८ ॥ नाशेष्वंशी न तेऽत्रान्ये वीक्ष्या न परमाणवः । आलोक्यार्थान्तरं कुयोदत्रापोद्धारकल्पनाम् ॥ १०९ ॥ गुणपर्ययवद्रव्यं ते सहक्रमवृत्तयः । विज्ञानव्यक्तिशक्त्याद्या भेदाभेदौ रसादिवत् ॥ ११० ॥ सदापि सविकल्पाख्यासाधनाय क्रमस्थितेः । गुणपर्यययो क्यमिति सूत्रे द्वयग्रहः ॥ १११ ॥ गुणवद्रव्यमुत्पादव्ययध्रौव्यादयो गुणाः। दुद्राव द्रवति द्रोष्यत्येकानेक स्वपर्ययम् ॥ ११२ ॥ भेदज्ञानात् प्रतीयेते प्रादुर्भावात्ययौ यदि । अभेदज्ञानतः सिद्धा स्थितिरंशेन केनचित् ॥ ११३ ॥ सदोत्पादव्ययध्रौव्ययुक्तं सदसतोऽगतेः । तादात्म्यनियमो हेतुफलसन्तानवद्भवेत् ॥ ११४ ॥ भिन्नमन्तर्बहिः सर्व युगपत्क्रमभावि नः। प्रत्यक्षं न तु साकारं क्रमयुक्तमयुक्तिमत् ॥ ११५ ॥ प्रत्यक्षप्रतिसंवेद्यः कुण्डलादिषु सर्पवत् ॥ ११५३ ॥ समानभावः सामान्यं विशेषोऽन्यो व्यपेक्षया ॥ ११६ ॥ स्वलक्षणमसङ्कीर्ण समानं सविकल्पकम् ।। समर्थ स्वगुणैरेकं सहक्रमविवर्तिभिः ॥ ११७ ॥ यदि शेषपरावृत्तेरेकशानमनेकतः। अनर्थमन्यथाभासम् अनंशानां न राशयः ॥११८॥