________________
न्यायविनिश्वयः
अविप्रकृष्टदेशादिरनपेक्षितसाधनः ।
दीपयेत् किन्न सन्तानः सन्तानान्तरमञ्जसा ॥ ७८३ ॥ अन्यवेद्यविरोधात् किमचिन्त्या योगिनां गतिः । आयातमन्यथाऽद्वैतमपि चेत्थमयुक्तिमत् ॥ ७९३ ॥ व्याहारादिविनिर्भासो विप्लुताक्षेऽपि भावतः । अनाधिपत्यशून्यं तत्पारम्पर्येण चेदसत् ॥ ८०३ ॥ अर्थेष्वपि प्रसङ्गश्चेत्यहेतुमपरे विदुः ॥ ८१ ॥ सहोपलम्भनियमान्नाभेदो नीलतद्धियोः । विरुद्धासिद्धसन्दिग्धव्यतिरेकान्वयत्वतः ॥ ८२ ॥ साध्यसाधनसङ्कल्पस्तत्त्वतो न निरूपितः । परमार्थावताराय कुतश्चित्परिकल्पितः ॥ ८३ ॥ अनपायीति विद्वत्तामात्मन्याशंसमानकः । केनापि विप्रलब्धोऽयं हा ! कष्टमकृपालुना ॥ ८४ ॥ तत्र दिग्भागभेदेन षडंशाः परमाणवः ।
नो चेत्पिण्डोऽणुमात्रः स्यान्न च ते बुद्धिगोचराः ॥ ८५ ॥ न चैकमेकरागादौ समरागादिदोषतः ।
स्वतः सिद्धेरयोगाच्च तद्वृत्तेः सर्वथेति चेत् ॥ ८६ ॥ एतत्समानमन्यत्र भेदाः संविदसंविदोः । न विकल्पानपा कुर्युनैरन्तर्यानुबन्धिनः ॥ ८७ ॥ आहुरर्थबलायातमनर्थमविकल्पकाः || ८७३ ॥ चित्रं तदेकमिति चेदिदं चित्रतरं ततः । चित्रं शून्यमिदं सर्व वेत्सि चित्रतमं ततः ॥ ८८३ ॥ तस्मान्नैकान्ततो भ्रान्तिर्नासत्संवृतिरेव वा । अतश्चार्थबलायातमनेकात्मप्रशंसनम् ॥ ८२३ ॥ न ज्ञायते न जानाति न च किञ्चन भाषते । बुद्धः शुद्धः प्रवक्तेति तत्किलैशं सुभाषितम् ॥ ९०३ ॥ न जातं न भवत्येव न च किञ्चित्करोति सत् । तीक्ष्णं शौद्धोदनेः शृङ्गमिति किन्न प्रकल्प्यते ॥ ९९३ ॥ एकेन चरितार्थत्वात्तत्राऽविप्रतिपत्तितः । अलमर्थेन चेन्नैवमतिरूढानुवादतः ॥ ९२३ ॥ कल्पना सदसत्त्वेन समा किन्तु गुरीयसी । प्रतीतिप्रतिपक्षेण तत्रैका यदि नापरा ॥ ९३३ ॥ न हि केशादिनिर्भासो व्यवहारप्रसाधकः ॥ ९४ ॥ वासनाभेदाद्भेदोऽयं सिद्धस्तत्र न सिद्धयति । तन्मात्राभावो दृष्टान्ते सर्वत्रार्थोपकारतः ॥ ९५ ॥ पारम्पर्येण साक्षाद्वा परापेक्षाः सहेतवः । विच्छिन्नप्रतिभासिन्यो व्याहारादिधियो यथा ॥ ९६ ॥ सन्निवेशादिभिर्दष्टैग पुराट्टालकादिषु । बुद्धिपूर्वैर्यथातत्त्वं नेष्यते भूधरादिषु ॥ ९७ ॥ तथा गोचरनिर्भासैर्दृष्टैरेव भयादिषु । अबाह्यभावनाजन्यैरन्यत्रेत्यवगम्यताम् ॥ ९८ ॥