________________
न्यायविनिश्चयविवरणे तदसत्त्वमतत्त्वं वा परसत्त्वसतत्त्वयोः । न हि सत्त्वं सतत्त्वं वा तदसत्त्वासतस्वयोः ॥ ५८ ॥ परितुष्यति नामैकः प्रभयोः परिधावतोः। मणिभ्रान्तेरपि भ्रान्तौ मणिरत्र दुरन्वयः ॥ ५९॥ सति भ्रान्तेरदोषश्चेत् तत्कुतो यदि वस्तु न। कामं सति तदाकारे तद् भ्रान्तं साधु गम्यते ॥ ६॥ अयमेवं न वेत्येवमविचारितगोचराः। जायेरन् संविदात्मानः सर्वेषामविशेषतः ॥ ६१ ॥ तावता यदि किञ्चित्स्यात् सर्वेऽमी तत्त्वदर्शिनः ॥ ६१३ ॥ पर्वतादिविभागेषु स्वांशमात्राविलम्बिभिः। विकल्पैरुत्तरैत्ति तत्त्वमित्यतियुक्तिमत् ॥ ६२३ ॥ सन्तानान्तरसदभूतेश्चान्यथानुपपत्तितः। विकल्पोऽर्थक्रियाकारविषयत्वेन तत्परैः ॥ ६३३ ॥ शायते न पुनश्चित्तमात्रेऽप्येष नयः समः । अन्योन्यसंश्रयान्नो चेत् तत्किमज्ञानमेव तत् ॥ ६४३ ॥ अद्वयं परचित्ताधिपतिप्रत्ययमेव वा। वीक्षते किं तमेवायं विषमज्ञ इवान्यथा ॥ ६५३ ॥ समारोपव्यवच्छेदः साध्यश्चेत्सविकल्पकैः। नैषापि कल्पना साम्यादोषाणामनिवृत्तितः ॥ ६६३ ॥ न हि जातु विषशानं मरणं प्रति धावति । असंश्चदहिरर्थात्मा प्रसिद्धोऽप्रतिषेधकः ॥६७३॥ सन्देहलक्षणाभावान्मोहश्चेव्यवसायकृत् । बाधकासिद्धः स्पष्टाभात्कथमेष विनिश्चयः॥ ६८३ ॥ विपर्यासोऽपि किन्नेष्टः आत्मनि भ्रान्त्यसिद्धितः॥ ६९ ॥ अद्वयं द्वयनिर्भासमात्मन्यप्यवभासते । इतरत्र विरोधः क एक एव स्वहेतुतः॥ ७० ॥ तथा चेत्स्वपरात्मानौ सदसन्तौ समश्नुते ॥७०३॥ तत्प्रत्यक्षपरोक्षाक्षक्षममात्मसमात्मनोः । तथा हेतुसमुद्भूतमेकं किन्नोपगम्यते ॥७१३॥ सर्वैकत्वप्रसङ्गादिदोषोऽप्येष समो न किम् । भेदाभेदव्यवस्थैवं प्रतीता लोकचक्षुषः ॥ ७२३ ॥ विज्ञप्तिर्वितथाकारा यदि वस्तु न किञ्चन । भासते केवलं नो चेत्सिद्धान्तविषमग्रहः ॥ ७३३ ॥ अनादिनिधनं तत्त्वमलमेकमलं परैः। सम्प्रीतिपरितापादिभेदात्तत्कि द्वयात्मकम् ॥ ७४३ ॥ ग्राह्यग्राहकवद्भ्रान्तिस्तत्र किन्नानुषज्यते ॥ ७५ ॥ भेदो वा सम्मतः केन हेतुसाम्येऽपि भेदतः। तेषामेव सुखादीनां नियमश्च निरन्वयः ॥ ७६ ॥ प्रत्यक्षलक्षणं ज्ञानं मूछितादौ कथं ततः। अज्ञानरूपहेतुस्तदहेतुत्वप्रसङ्गतः ॥ ७७॥ प्रवाह एकः किन्नेष्टस्तदभावाविभावनात् ॥ ७७३ ॥