________________
न्यायविनिश्चयः
सरूपमसरूपं वा यत्परिच्छेदशक्तिमत् ।
तद्व्यनक्ति ततो नान्यत् व्यक्तिश्चेदसतः कथम् ॥ ३८ ॥ आरादपि यथा चक्षुरचिन्त्या भावशक्तयः । विषमोऽयमुपन्यासस्तयोश्चेत्सदसत्त्वतः ॥ ३९ ॥ यदा यत्र यथा वस्तु तदा तत्र तथा नयेत् । अतत्कालादिरण्यात्मा न चेन्न व्यवतिष्ठते ॥ ४० ॥ व्यवहारविलोपो वा मोहाच्चेदयथार्थता | अत्यन्तमसदात्मानं सन्तं पश्यन् स किं पुनः ॥ ४१ ॥ प्रस्फुटं विपरीतं वा न्यूनाधिकतयापि वा । प्रदेशादिव्यपायेऽपि प्रतियन् प्रतिरुध्यते ॥ ४२ ॥ एतेन प्रत्यभिज्ञानाद्यतीतानुमितिर्गता । प्रायशोऽन्यव्यवच्छेदं प्रत्यग्रानवबोधतः ॥ ४३ ॥ अविज्ञात्तथाभावस्याभ्युपायविरोधतः ॥ ४३३ ॥
[ते 'यथैवात्मा' (३४) इत्यादि 'अविज्ञात' (४३३) इति पर्यन्तम् अन्तरश्लोकाः ] अभिन्न देशकालानामन्येषामप्यगोचराः । विप्लुताक्षमनस्कारविषयाः किं बहिः स्थिताः ॥ ४४३ ॥ अन्तःशरीरवृत्तेश्चेददोषोऽयं न तादृशः ।
तत्रैव ग्रहणात्किं वा रचितोऽयं शिलाप्लवः ॥ ४५३ ॥ विप्लुताक्षा यथा बुद्धिर्वितथप्रतिभासिनी । तथा सर्वत्र किन्नेति जडाः सम्प्रतिपेदिरे ॥ ४६३ ॥ प्रमाणमात्मसात्कुर्वन् प्रतीतिमतिलङ्घयेत् । वितथज्ञानसन्तानविशेषेषु न केवलम् ॥ ४७ ॥ अद्वयं द्वयनिर्भासं सदा चेदवभासते । न स्वतो नापि परतो भेदपर्यनुयोगतः ॥ ४८३ ॥ प्रतिसंहारवेलायां न संवेदनमन्यथा ॥ ४९ ॥ इन्द्रजालादिषु भ्रान्तमीरयन्ति न चापरम् । अपि चाण्डालगोपालबाललोलविलोचनाः ॥ ५० ॥ तत्र शौद्धोदनेरेव कथं प्रज्ञापराधिनी । बभूवेति वयं तावत् बहुविस्मयमास्महे ॥ ५१ ॥ तत्राद्यापि जनाः सक्ताः तमसो नापरं परम् । विभ्र विभ्रमे तेषां विभ्रमोऽपि न सिद्ध्यति ॥ ५२ ॥ कथमेवार्थ आकाङ्क्षानिवृत्तेरपि कस्यचित् । व्यवहारो भवेज्जातिमूकलोहितपीतवत् ॥ ५३ ॥ अनर्थानेक सन्तानानस्थिरानविसंविदः । अन्यानपि स्वयं प्राहुः प्रतीतेरपलापकाः ॥ ५४ ॥ स्वतस्तत्त्वं कुतस्तत्र वितथप्रतिभासतः । मिथस्तत्त्वं कुतस्तत्र वितथप्रतिभासतः ॥ ५५ ॥ यतस्तत्त्वं पृथक् तत्र मतः कश्चिद् बुधः परः । ततस्तत्त्वं गतं केन कुतस्तत्त्वमतत्त्वतः ॥ ५६ ॥ यथा सत्त्वं सतत्त्वं वा प्रमासत्त्वसतत्त्वतः । तथाऽसत्त्वमतत्त्वं वा प्रमासत्त्व सतत्त्वतः ॥ ५७ ॥
४३