________________
न्यायविनिश्चयविवरणे एतेन येऽपि मन्येरनप्रत्यक्षं धियोऽपरम् । संवेदनं न तेभ्योऽपि प्रायशो दत्तमुत्तरम् ॥ १८ ॥ विमुखज्ञानसंवेदो विरुद्धो व्यक्तिरन्यतः। असञ्चारोऽनवस्थानमविशेष्यविशेषणम् ॥ १९ ॥ निराकारेतरस्यैतत्प्रतिभासभिदा यदि । तत्राप्यनर्थसंवित्तावर्थज्ञानाविशेषतः॥२०॥ शानज्ञानमपि ज्ञानमपेक्षितपरं तथा । ज्ञानशानलताशेषनभस्तलविसपिणी ॥ २१॥ प्रसज्येतान्यथा तद्वत्प्रथमं किन्न मृग्यते । गत्वा सुदूरमप्येवमसिद्धावन्त्यचेतसः ॥ २२॥ असिद्धेरितरेषां च तदर्थस्याप्यसिद्धितः।--- असिद्धो व्यवहारोऽयमतः किं कथयाऽनया ॥ २३ ॥
[एते (२०-२३) अन्तरश्लोकाः प्रत्यक्षोऽर्थपरिच्छेदो यद्यकिञ्चित्करेण किम् । अथ नायं परिच्छेदो यद्यकिञ्चित्करेण किम् ॥ २४ ॥ प्रत्यक्ष करणस्यार्थप्रतिबिम्बमसंविदः । अप्रत्यक्षं स्वसंवेद्यमयुक्तमविकारिणः ॥ २५ ॥ एतेन वित्तिसत्तायाः साम्यात्सर्वैकवेदनम् । प्रलपन्तः प्रतिक्षिप्ताः प्रतिबिम्बोदये समम् ॥ २६ ॥ सारूप्येऽपि समन्वेति प्रायः सामान्यदूषणम् । अतदर्थपरावृत्तमतद्रूपं तदर्थदृक् ॥ २७ ॥ अथेदमसरूपं किमतदर्थनिवृत्तितः। तदर्थवेदनं न स्यादसमानामपोहवत् ॥ २८ ॥ अत्राक्षेपसमाधीनामभेदे नूनमाकुलम् । स्वचित्तमात्रगर्त्तावतारसोपानपोषणम् ॥ २९ ॥ सामान्यमन्यथासिद्धं न हि ज्ञानार्थयास्तथा। अदृष्टरर्थरूपस्य प्रमाणान्तरतो गतेः ॥ ३० ॥ अतीतस्यानभिव्यक्तौ कथमात्मसमर्पणम् । असतोऽशानहेतुत्वे व्यक्तिरव्यभिचारिणी ॥ ३१॥ प्रकाशनियमो हेतोर्बुद्धर्न प्रतिबिम्बतः । अन्तरेणामपि तादूप्यं ग्रााग्राहकयाः सतोः ॥ ३२ ॥ अनाकारशङ्केषु त्रुट्यत्येष नयो यदि । सर्व समानमर्थात्मासम्भाव्याकारडम्बरम् ॥ ३३॥ तभ्रान्तेराधिपत्येन सान्तरप्रतिभासवत् ॥३३॥ यथैवात्मायमाकारमभूतमवलम्बते।। तथैवात्मानमात्मा चेदभूतमवलम्बते ॥ ३४३ ॥ न स्वसंवेदनात् तुल्यं भ्रान्तेरन्यत्र चेन्मतम् ॥ ३५ ॥ सत्यं तमाहुराचार्या विद्यया विभ्रमैश्च यः। यथार्थमयथार्थ वा प्रभुरेषोऽवलोकते ॥ ३६॥ विषयज्ञानतज्ज्ञानविशेषोऽनेन वेदितः। अर्थशानस्मृतावर्थस्मृतौ नातिप्रसज्यते ॥ ३७॥