________________
भट्टाकलङ्कदेवविरचितः
न्यायविनिश्चयः प्रसिद्धाशेषतत्त्वार्थप्रतिबुद्धकमूर्तये । नमः श्रीवर्धमानाय भव्याम्बुरुहभानवे ॥१॥ बालानां हितकामिनामतिमहापापैः पुरोपार्जितैः माहात्म्यात्तमसः स्वयं कलिबलात्प्रायो गुणद्वेषिभिः । न्यायोऽयं मलिनीकृतः कथमपि प्रक्षाल्य नेनीयते सम्यग्ज्ञानजलैर्वचोभिरमलं तत्रानुकम्पापरैः ॥२॥ प्रत्यक्षलक्षणं प्राहुः स्पष्टं साकारमअसा । द्रव्यपर्यायसामान्यविशेषार्थात्मवेदनम् ॥ ३॥ सदसज्ज्ञानसंवादविसंवादविवेकतः। सविकल्पाविनाभावी समक्षेतरसम्प्लवः ॥ ४॥ एकत्र निर्णयेऽनन्तकार्यकारणतेक्षणे। अतद्धतुफलापोहे कुतस्तत्र विपर्ययः॥५॥ अभिलापतदंशानामभिलापविवेकतः। अप्रमाणप्रमेयत्वमवश्यमनुषज्यते ॥६॥ पदार्थशानभागानां पदसामान्यनामतः। तथैव व्यवसायः स्याश्चक्षुरादिधियामपि ॥७॥ आत्मनाऽनेकरूपेण बहिरर्थस्य तादृशः।। विचित्रं ग्रहणं व्यक्तं विशेषणविशेष्यभाक् ॥ ८॥ अर्थशानेऽसतोऽयुक्तः प्रतिभासोऽभिलापवत् । परमार्थेकनानात्वपरिणामाविघातिनः ॥९॥ प्रतिज्ञातोऽन्यथाभावः प्रमाणैः प्रतिषिध्यते । परोक्षज्ञानविषयपरिच्छेदः परोक्षवत् ॥ १० ॥ अन्यथानुपपन्नत्वमसिद्धस्य न सिद्धयति । मिथ्याविकल्पकस्यैतद् व्यक्तमात्मविडम्बनम् ॥ ११ ॥ अध्यक्षमात्मनि ज्ञानमपरत्रानुमानिकम् । नान्यथा विषयालोकव्यवहारविलोपतः ॥ १२ ॥ आन्तरा भोगजन्मानो नार्थः प्रत्यक्षलक्षणः। नधियो नान्यथेत्येते विकल्पा विनिपातिताः॥१३॥ सुखदुःखादिसंवित्तेरवित्तेन हर्षादयः। आनुमानिकभोगस्याप्यन्यभोगाविशेषतः ॥१४॥ तावत्परत्र शक्तोऽयमनुमातुं कथं धियम् । यावदात्मनि तच्चेष्टासम्बन्धं न प्रपद्यते ॥ १५॥ विषयेन्द्रियविज्ञानमनस्कारादिलक्षणः। अहेतुरात्मसंवित्तेरसिद्धेयभिचारतः ॥ १६ ॥ असिद्धसिद्धेरप्यर्थः सिद्धश्चेदखिलं जगत् । सिद्ध तत्किमतो शेयं सैव किन्नानुपाधिका ॥ १७ ॥