________________
न्यायविनिश्चयः
तथा साक्षात्कृताशेषशास्त्रार्थोऽक्षानपेक्षणात् । सवृत्त केवलज्ञानः सर्वज्ञः सम्प्रतीयते ॥७९॥ ज्ञस्यावरणविच्छेदे शेयं किमवशिष्यते । अप्राप्यकारिणः तस्मात् सर्वार्थानवलोकते ॥८॥ शास्त्रे दुरवगाहार्थतत्त्वं दृष्टं हि केवलम् । ज्योतिर्सानादिवत्सर्वं स्वत एव प्रणेतृभिः ॥८१॥ संघातो हेतुरेतेषां पृथगन्यत्र सम्भवात् । एवं हि सुगतादिभ्यो वरमीक्षणिकादयः ॥८२॥ शास्त्रं तल्लक्षणव्याप्तं सर्वशादेरबाधनात् । अपौरुषेयवृत्तान्तोऽप्यत एव विरुद्ध्यते ॥८३॥ प्रत्यक्षमञ्जसा स्पष्टमन्यच्छतमविप्लवम् । प्रकीर्ण प्रत्यभिज्ञादौ प्रमाणे इति संग्रहः ॥८४॥ इदमेवमिति शानं गृहीतग्रहणेऽपि नः । प्रत्यक्षेऽर्थेऽन्यथारोपव्यवच्छेदप्रसिद्धये ॥८५॥ अनुमानमतो हेतुव्यवच्छेदेऽनवस्थितिः। उपमानं प्रसिद्धार्थसाधर्म्यात्साध्यसाधनम् ॥८६॥ यदि किञ्चिद्विशेषेण प्रमाणान्तरमिष्यते । प्रमितोऽर्थः प्रमाणानां बहुभेदः प्रसज्यते ॥८७॥ सर्वमेतच्छुतज्ञानमनमानं तथागमः। सम्प्रदायाविघातेन यदि तपवं प्रतीयते ॥८८॥ आद्ये परोक्षमपरं प्रत्यक्षं प्राहुराञ्जसम् । केवलं लोकबुद्ध्यैव मतेर्लक्षणसंग्रहः ॥८९॥ स्याद्वादः श्रवणशानहेतुत्वाश्चक्षुरादिवत् । प्रमा प्रमितिहेतुत्वात्प्रामाण्यमुपगम्यते ॥९०॥ प्रमाणस्य फलं तत्त्वनिर्णयादानहानधीः। निःश्रेयसं परं प्रायः केवलस्याप्युपेक्षणम् ॥९१॥ प्रत्यक्षं श्रुतविज्ञानहेतुरेव प्रसज्यते।। इष्टं तत्त्वमपेक्षातो नयानां नयचक्रतः ॥९२॥ मिथ्यात्वं सौगतानां कणचरसमयं कापिलीयं प्रमेयं , प्रागल्भ्यं शाबराणां जिनपतिविहिताशेषतत्त्वप्रकाशे। पर्याप्तत्वं व्यपोहन्नुपहसनमयं प्रस्तुवन्न्यायमार्गे , स्याद्वादः सर्ववादप्रवणगुणगणः श्रेयसे नोऽस्तु नित्यम् ॥१३॥ नैकान्तक्षायिकाणां अतिशयमवदन्नैव नानार्थसाध्यम् , नैष्किञ्चन्यं तपो वाऽविगलितसकलक्लेशराशेर्विनाशे । निष्पर्यायं प्रवृत्तं सकलविषयगं केवलं वेद नित्यम् , योऽयं तस्मै नमामस्त्रिभुवनगुरवे सम्भवे शान्तये ते ॥१४॥ युक्तायुक्तपरीक्षणक्षमधियामत्यादराराधिनाम् , संसेव्यं परमार्थवेदसकलध्यानास्पदं शाश्वतम् । लोकालोककलावलोकनबलप्रज्ञागुणोद्भूतये , आभव्यादकलङ्कमङ्गलफलं जैनेश्वरं शासनम् ॥९५३॥