________________
३००
न्यायविनिश्चयविवरणे
[३३३० न्तरस्य तदुत्पत्तेः, तस्य च वेदवत् स्वतःसिद्धरुपपन्नमेतत् 'यत्नस्तत्र निरर्थकः' इति । न चैवम् । अत इदमुच्यते-पौरुषेय आयुर्वेदादिः प्रयत्नसाफल्यादिति । व्यभिचारी हेतुर्वाचकपुरुषापेक्षया भारतादेरपौरुषेयत्वेऽपि तत्साफल्यादिति चेत्; न; तदपेक्षया वस्तुतस्तस्य पौरुषेयत्वात् । कथं तर्हि 'स तेन वाच्यते' इति व्यवहार: ? 'क्रियते' इत्येव तदुपपत्तेरिति चेत् ; नः प्रागपि तादृशस्य प्रबन्धस्य भावात्, तदेकत्वाध्यारोपेण तद्व्यवहारोपपत्तेः । 'त एवामी शालयो भुज्यन्ते ये परुद् भुक्ताः' इति व्यवहारवत् । व्यासाद्यपेक्षया तु 'तदव्यवहारः, ततः पूर्वं तादृशस्याभावात् । भवत्वेवमायुर्वेदादेरपि गुर्वादिभिर्भाषितस्यैव सदृशतया शिष्यादिभिरपि भाषणादनुभाष्यत्वमेव न पौरुषेयत्वं मूलस्य कस्यचित् कर्तु रभावात् । अत एवोक्तम्--
"वक्ता न हि क्रमं कश्चित् स्वातन्त्र्येण प्रपद्यते । यथैवास्य परैरुक्तस्तथैवैन विवक्ष्यति ॥ परोऽप्येवं ततश्चास्य सम्बन्धवदनादिता । तेनेयं व्यवहारात् स्यादकौटस्थ्येऽपि नित्यता ॥ यत्नतः प्रतिषेध्या नः पुरुषाणां स्वतन्त्रता।"
[मी० श्लो० शब्दनि० श्लो० २८८-९०] इति चेत् ; तदसत्यम् ; प्रत्येकमस्वतन्त्रत्वेऽपि पुरुषाणां तत्प्रबन्धस्य तत्र स्वातन्त्र्यात् _सत्यव तस्मिन् तद्भावात् । इदमेव हि तस्य तत्र स्वातन्त्र्यं नाम 'यत्तद्भावाभावनियमानु
विधायित्वमायुर्वेदादेः, अतः कथमपौरुषेयत्वम् ? सत्यमेतत्, अपौरुषेयत्वं तु कस्यचिदती
न्द्रियदर्शिनस्तत्कर्तु रभावादिति चेत्; कथमिदानीं तत्राप्रामाण्यनिवृत्तिनिर्णयः सति २० पौरुषत्वे दोषपरिशङ्कनस्यानिवृत्तेः ? "दोषाः सन्ति न सन्तीति पौरुषेयेषु शङक्यते" [
] इति स्वयमेवाभिधानात् । कुतो वा तत्र तादृशः कर्तु रभावः ? प्रत्यक्षादिति चेत् ; न; चिरकालव्यवहितस्य ततो भाववत् अभावस्याप्यप्रतिपत्तेः । इदानीं ततस्तदभावप्रतिपादनं तु न दोषाय, अभीष्टत्वात् ।।
कर्तुरस्मरणाल्लिङ्गादिति चेत् ; किमिदमस्मरणम् ? अपरिज्ञानमिति चेत् ; न; २५ 'सकलज्ञस्य' इत्यादिना दत्तोत्तरत्वात् । अनभ्युपगम इति चेत् ; किं पुनरभ्युपगमेन भाव
व्याप्तिर्यतस्तदभावे न भवेत् ? तथा चेत्; सर्वस्य सर्वमिष्टं सिद्धयेत्, अनिष्टस्यानभ्युपगमादेवाभावोपपत्तेः । न तन्मात्रादेवाभावः अपि तु प्रमाणमूलादिति चेत् ; किं तर्हि तत् प्रमाणं यदनभ्युपगमस्य मूलं भवेत् ? इदमनुमानमिति चेत् ; न; परस्पराश्रयात्-अनभ्युपगमादनुमानम्, अनुमानादनभ्युपगम इति। ततोऽप्यनुमानमन्यदेवेति चेत्, न; तस्यापि भावग्राहिणस्तन्मूलत्वानुपपत्तेः। अभावग्राहित्वे तु तत एवाभावसिद्धेः व्यर्थमिदमनुमानं भवेत् । किं वा तदन्यत् प्रमाणम् ? 'आयुर्वेदादिप्रबन्धो मूलकर्तृ विकल: अनादित्वात् मनुष्यप्रबन्धवत्' इत्यनुमानमिति चेत्, तदनादित्वं यदि प्रमाणान्तरात्; तत एव तदकर्तृकत्वसिद्धेः व्यर्थमिदम् । अत एव चेत्; उक्तं परस्पराश्रयत्वम् । तन्नातस्तद्वैकल्यसिद्धिः ।
आगमादिति चेत्न; तेन तत्र प्रजापतिकर्तृकत्वस्य "एवं वा अरे अस्य महतो
१ वाच्यते इति व्यवहाराभावः। २ यत्तदभावा-प्रा०, ब०, प०।३ "दोषाः सन्ति न सन्तीति पौरुषेये तु शक्यते। वेदे कर्तुरभावाच दोषाशङ्कव नास्ति नः ॥"- तत्त्वसं० श्लो० २४९५ । ४ न्यायवि. श्लो० ३।२० । ५ तद्वैकल्यस्य सिद्धि-पा०, ब०, ५०।