________________
३।३०] ३ प्रवचनप्रस्तावः
२६६ न स्याद्वादिनः, तेनाप्रत्यक्षादेवोहविकल्पतस्तदुपगमात् । भवतु सूक्ष्मादावपि तत एव तन्निश्चय इति चेत् ; न; 'तत्प्रामाण्ये षट्प्रमाण नियमविनिपातात् । को वा तद्विकल्पोपगमे भवतो लाभः ? सूक्ष्मादिप्रत्यक्षत्वाभाव एवानुमातुरिति चेत् ; न; 'तद्विकल्पस्यैव देशकालानवच्छिन्नव्याप्तिप्रतिवेदिनो वैशद्यकोटिप्राप्तौ सूक्ष्मादिप्रत्यक्षत्वोपपत्तेः । भवति हि तस्य तत्प्राप्तिः, आवरणापाये तन्निमित्तस्यावैशद्यस्य व्यपगमात् । प्रतिपादितं च तस्य' तन्नि मितत्वं क्वचिन्निरवशेषनिवृत्तिश्च । तन्न तदुपगमेऽपि तत्प्रत्यक्षप्रसङ्गभयात् निर्मुक्तिः इन्द्रियशक्त्यादेरपि स्पष्टभावाधिष्ठानतद्विकल्पशेमुषीविषयभावमुपासेदुषः प्रत्यक्षत्वाभ्यनुज्ञानस्यादूषणात् । ततः प्रसिद्ध प्रत्यक्षापेक्षयैव कस्यचित् सूक्ष्मादयोऽर्थाः प्रत्यक्षाः - पावकादयः इवेत्युपपन्नम्, अन्यथा तल्लिङ्गप्रतिबन्धनिर्णयानुपपत्त्या तदनुमानाभावप्रसङ्गात्। का पुनरेवं भवतस्तत्प्रत्यक्षसाधनप्रयासेन समीहितसिद्धिरिति चेत् ? निरवशेष- १० तत्वशिनः पुरुषस्य निर्बाधत्वेनावस्थितिरेव । अत एवोक्तम् 'इति सर्वज्ञसंस्थितिः' इति ।
भवत्येव तत्प्रसङ्गसाधनं यदि ग्रहगत्यादि कमनुमानतः प्रतिपद्य कश्चिदुपदिशेत्, न चैवम्, तच्छास्त्रस्य वेदाङ्गत्वेनापौरुषेयस्योपदेष्टुरेवाभावात् । एतदेवाह-- ..
वेदस्यापौरुषेयस्य स्वतस्तत्त्वं विवृण्वतः।
आयुर्वेदादि यद्यङ्ग [यत्नस्तत्र निरर्थकः] ॥३०॥ इति । 'वैद्यकमायुर्वेदः आदिशब्दात् ज्योतिःशास्त्रादि यदि चेत् अङगमवयवः । कस्य ? वेदस्य । कीदृशस्य अपौरुषेयस्य अपुरुषकृतस्य । पुनरपि तद्विशेषणं स्वतः पुरुषनिरपेक्षतया तत्त्वम् आत्मानं स्वर्गतद्धेतुसम्बन्धांश्च विवृण्वतो व्यञ्जयत इति । अत्रोत्तरमाहयत्नस्तत्र निरर्थकः इति । तत्र तस्मिन्नायुर्वेदादौ यत्नस्ताल्वादिव्यापारलक्षणः तदर्थव्याख्यानरूपश्च प्रयासो निरर्थको निष्फलः । तथा हि--
न तावत् कण्ठताल्वादिव्यापारस्तत्स्वरूपकृत् । नित्यस्याकरणात्तस्य नापि तद्व्यक्तिकारणम् ॥१७३७।। व्यक्तिस्तस्मादभिन्ना चेत् नित्यैवेति न तत्कृतिः । भिन्ना चेद्वेदतो व्यक्तिस्तस्येति कथमुच्यताम् ॥१७३८॥ तयापि तस्य चेत् व्यक्तिस्तत्राप्येवं प्रसञ्जनात् ।
अनवस्थाभयावेशान्निर्मुच्येत कथं भवान् ॥१७३९॥ अथ मतमुपलब्धिरेव व्यक्तिः, "उपलब्धिनिमित्ताच्च नान्यद् व्यञ्जकमुच्यते।"[ ] इति वचनात् । सा च विषयविषयिभावात् सम्बन्धादेव वेदस्येत्युच्यते नाभेदात् नापि तदन्तरकरणादिति; तन्न; उपलब्धेः प्रयत्नकार्यत्वेनानित्यत्वे तद्विषयभावस्यापि तदपेक्ष्यत्वेनानित्यत्वप्रसङ्गात् । अनित्य एव स इति चेत् ; वेदः कथं नित्यः ? तस्य तस्माद् व्यतिरेका- ३० दिति चेत्; स एव वेदस्येति कथम् ? व्यतिरिक्तादेव कुतश्चित् सम्बन्धादिति चेत् ; न; तत्रापि पूर्ववत्प्रसङ्गात् अनवस्थापत्तेश्च । तन्नोपलब्धर्व्यक्तित्वम्, आविर्भावस्यैव तदन
. २०
१ व्याप्तिनिश्चयस्वीकारात् । २ ऊहस्य प्रामाण्ये। ३ ऊहविकल्पस्यैव । ४ आवरणस्य प्रवेशद्यनिमित्तत्वम् । ५ -दिक्रममनु-पा०, ब०, प०।६ "शिक्षा कल्पोऽथ व्याकरणं निरुक्तं ज्योतिष तथा । छन्दसां विचितिश्चेति षडङ्गो वेद उच्यते ॥"- ता० टि० । ७ वैद्यकर्मायुर्वे-पा०, ब०, प० । ८-म्बन्धं च श्रा०, ब०, प० ।