________________
५
१०
१५
.
६५
न्यायविनिश्चयविवरणे
[३२८-२९
प्राणिनस्तदधिकरणान् अदृष्टविशेषानपि तद्धेतुफलविकल्पेन प्रत्याययन्ति, अन्यथा तत्पिशुनतया' तत्प्रतिपत्तेरनुपपत्तेः तत्कथमशेष विषयमेव ततस्तन्न साधितं भवेत् ? एतदेवाह -- ग्रहादिगतयः सर्वाः सुखदुःखादिहेतवः ।
येन साक्षात्कृतास्तेन किन्न साक्षात्कृतं जगत् ॥ २८ ॥ इति ।
२६८
ग्रह आदित्यादिरादिर्येषां तारकादीनां तेषां गतयश्चारविशेषाः । उपलक्षणमिदम्लतागुल्माद्योषधिगता रसवीर्यादयो मन्त्रध्यानादिगता वशीकरणशक्त्यादयोऽपि सर्वाः निरवशेषाः येन प्रतिपादितवचनोपक्रमवता साक्षात्कृतास्तेन पुरुषेण किन्न साक्षात्कृतम् इत्यर्थः ? सुखदुःखादिहेतव इत्यत्रैवोपपत्तिः, यतः तद्गतयो रसवीर्यविपाकादयश्च जगतः प्रीतिपरितापलाभालाभजीवितमरणादेर्ज्ञापकतयोत्पादकतया चोपजाताः ततः
तत्साक्षा
त्कारिणा तदपि साक्षात्कृतमेव, अन्यथा तत्साक्षात्करणानुपपत्तेरिति मन्यते । ततः स्थितं तद्गत्यादिसाक्षात्का रिज्ञानोपनिबन्धन एव तस्य प्रतिपादितो वचनोपक्रम इति ।
सूक्ष्मान्तरितदूरार्थाः प्रत्यक्षाः कस्यचिद्यथा । अनुमेयत्वतोऽग्न्यादिरिति सर्वज्ञसंस्थितिः' ।। २६ ॥ इति । सूक्ष्माः परचेतोवृत्ति विशेष मन्त्रौषधिशक्त्यादयः अन्तरिता देशकालव्यवहिता जीवितमरणलाभालाभादयो दूराः मन्दरमकराकरादयस्त एव अर्थाः ते कस्यचित् तद्विषयानुमावत : पुरुषस्य प्रत्यक्षा विशदज्ञानविषया इति साध्यन्ते अनुमेयत्वात् अनुमानज्ञानगोचरत्वात् । यदि ते प्रत्यक्षाः किमनुमानेन प्रत्यक्षाविषय एव तदुत्पत्तेः, "प्रत्यक्षब ुद्धिः क्रमते न यत्र २० तल्लिङ्गगम्यम्" [ युक्त्यनुशा० श्लो० २२] इति भवतामप्यभ्युपगमादिति चेत्; यदि न प्रत्यक्षाः, तथाऽपि कथमनुमानम् । कथं च न स्यात् ? व्याप्त्यपरिज्ञानात् । न हि प्रत्यक्षादन्यत् साध्यसाधनव्याप्तिप्रतिपत्तौ तस्य प्रमाणम् । अनुमानतस्तदवगतौ, तत एव; परस्पराश्रयात् । अन्यतश्चानवस्थानात् । अर्थापत्तेश्चानुमान विशेषत्वात् । उपमानस्य च प्रत्यक्षविषय एव सादृश्योपाधिकतया प्रवृत्तेः । आगमात् तत्प्रतिपत्तौ व्यर्थमनुमानं साध्यस्यैव ततः परिज्ञानात् । ततः प्रत्यक्षमेव तत्र प्रमाणम् । तेन च व्याप्तिमवद्योतयता सूक्ष्माastramador एव, अन्यथा तल्लिङ्गव्याप्तेस्ततोऽवद्योतनानुपपत्तेः । “प्रत्यक्ष बुद्धिः " इत्यादिकं तु प्रमाणान्तरात् व्याप्तिप्रतिपत्त्यभिप्रायेणाभिहितं ततो न दोषस्तद्वचनस्य । चोक्तम् - यदि ते प्रत्यक्षा: किमनुमानेनेति तदपि मीमांसकस्यैव चोद्यं यः प्रत्यक्षविषयेऽपि अनुमानमन्विच्छति नास्माकम् अस्माभिस्तु केवलं तत्प्रसञ्जितेनानुमानं ३० तेषां प्रत्यक्षविषयत्वं प्रत्याय्यते । अत एवेदं प्रसङ्गसाधन' मामनन्ति मनीषिणः । भवेदिदं प्रसङ्गसाधनं यदि प्रत्यक्षविषय एवानुमानम् । न चैवम्, इन्द्रियशक्त्यादिवत् सूक्ष्मादेरप्यत - द्विषयस्यैव कुतश्चित् कार्यव्यतिरेकात् अनुमानोपपत्तेरिति चेत्; न; तच्छक्त्यादेरपि अनिश्चितप्रतिबन्धात् अनुमानानुपपत्तेरतिप्रसङ्गात् । प्रतिबन्धनिश्चये प्रत्यक्षतः कथमतीन्द्रियत्वं तच्छक्त्यादेरिति चेत् ? अयमपि भवत एव पर्यनुयोगो यस्य प्रत्यक्षात् तन्निश्चयो
साम्प्रतं परस्य निर्बंन्धात् लिङ्गबलोपनिबन्धनत्वे सत्यपि तस्य सूक्ष्मादिपदार्थसाक्षात्करणमवश्यम्भावीति दर्शयन्नाह -
१ तत्सूचकतया । २ तुलना- श्राप्तमी० श्लो० ५। ३ -नुमानवतः श्रा०, ब०, प० । ४ परस्य आ०, ब०, प० । ५ तत एवानुमानात् स्वीयव्याप्तिप्रतिपत्तौ । ६ - नमनुमानमिति मनी - आ०, ब०, प० ।