________________
३१२७] ३ प्रवचनप्रस्तावः
२९७ चेत्; कार्यत्वाद्यविशेषेऽपि घटादिकमेव बुद्धिमद्धेतुकं न तनुकरणादिकमित्यपि विभागस्तथा भवेदिति कथमीश्वरसिद्धिर्यतः तज्ज्ञानमतत्पूर्वमुच्येत ? तन्न किञ्चिदेतत् । नन्वेवमागमस्य तत्पूर्वकत्वं न भवेत्, ततोऽपि पूर्व तस्याभावादिति चेत् ; अत्राह-'न च तेन विनागमः' इति । तेन केवलज्ञानेन विना आगमः तदर्थानुष्ठानहेतुः न च नैव सिद्धयेत् । तस्यापौरुषेयस्य निषेधात् । न चैवमन्योन्यसंश्रयः; हेतुहेतुमद्भावेन परमागमकेवलज्ञानसन्ता- ५ नस्य बीजाङकुरवदनादित्वात् । एतदेव दर्शयन्नाह
सत्यमर्थबलादेव पुरुषातिशयो मतः ।
प्रभवः पौरुषेयोऽस्य प्रबन्धोऽनादिरिष्यते ॥२७॥ इति । सत्यम् अवितथम् । किं तत् ? पुरुषातिशयः पुरुषस्यातीन्द्रियार्थदर्शनादिरूपः प्रवचनहेतुरतिशयः प्रकर्षो मतोऽभ्यनुज्ञातः । इतिशब्दोऽत्र द्रष्टव्यः । तदभ्यनुज्ञानं च १० अर्थस्य आगमप्रामाण्यलक्षणस्य अन्यथाऽनुपपत्तिलक्षणात् बलादेव, न हि तत्पुरुषातिशयमन्तरेणोपपन्नमिति 'निरूपितम् । एवञ्च अस्य प्रवचनस्य प्रभवः क्वचित् कदाचिच्चोच्छेदवतः पुनरुन्मज्जनं पौरुषेयः पुरुषकृतः प्रबन्धस्तु सन्तानापरनामा अनादिरिष्यते। तथा तदिष्टौ कस्यचिद् बाधकस्याभावात् । न केवलं तद्बलादेव तदभ्यनुज्ञानम्, अपि तु अनुमानादपि । तच्चेदम्'-यो यत्रानुपदेशालिङ्गानन्वयव्यतिरेकाविसंवादि वचनोपक्रमः स तत्साक्षा- १५ त्कारी यथा सुरभिचन्दनगन्धादौ अस्मदादिः, तथाविधवचनोपक्रमश्च कश्चित् ग्रहनक्षत्रादिगतिविकल्पे मन्त्रतन्त्रादिशक्तिविशेषे च तदागमप्रणेता पुरुष इति। तदागमस्यापौरुषेयत्वेन प्रणेतुरभावादाश्रयासिद्धः तदभिधेयविषयस्तथाविधवचनोपक्रम इति चेत् ; न 'वेदस्य' इत्यादिना तत्रोत्तरस्य वक्ष्यमाणत्वात् । एवमप्यसिद्धं तद्विशेषणमनुपदेशत्वम्, उपदेशात् कस्यचित् तदुपक्रमसम्भवादिति चेत् ;न ; उपदेष्टुस्तदर्थदर्शनाद्यतिशयसम्भवे तस्यैव निखिलविषय- २० विज्ञानाधिष्ठानत्वेनास्मदिष्टप्रतिष्ठानात् तस्याप्यपदेशबलादेव उपदेष्ट त्वपरिकल्पनायाम-. नादिः उपदेशप्रबन्धः परिकल्पितो भवति । तत्र च 'अनादिसम्प्रदायश्चेत्' इत्यादिना दोषं वक्ष्यामः । तन्नानुपदेशत्वमसिद्धम् । नाप्यलिङ्गत्वम् ; न हि लिङ्गबलात् तस्य तद्विकल्पाद्युपदेशः, लिङ्गस्यैव तत्र कस्यचिदसम्भवात् । सम्भवेऽपि तस्य प्राकृतपुरुषविषयत्वे सर्वस्यापि ततस्तत्प्रतिपत्तिसम्भवात् दैवज्ञत्वमविशिष्टं भवेत्। विशिष्टप्रतिपत्तृगोचरत्वे तु सिद्धं २५ तत्प्रतिपत्तुरतीन्द्रियार्थसाक्षात्करणं तदपरस्य तद्वैशिष्ट्यस्यायोगादिति नासिद्ध मलिङ्गत्वम्। .. नापि अनन्वयव्यतिरेकित्वम् ; न हि अन्वयव्यतिरेकाभ्यां ग्रहचारादेः सम्भवति प्रतीतिः, तस्य चूतमर्यादेमधुमासादिवत् देशकालादिनियमाभावात् । नापि तस्याविसंवादित्वम् ; सति तद्वाच्यसम्बन्धपरिज्ञाने तत्र संवादस्यैव प्रतीतेः। कदाचित् विसंवादप्रतीतिस्तु प्रतिपत्तुरेव यथावत्तत्सम्बन्धपरिज्ञानसामर्थ्यवैकल्यलक्षणादपराधात्, न तद्वचनोपक्रमस्य । ततो ३० युक्तं तदन्यथाऽनुपपत्त्या क्वचित् तद्विषयसाक्षात्करणसाधनम् । एवमपि ग्रहगत्यादिविषयमेव ततस्तत्सिद्धयेत् नाशेषविषयमिति चत् ; न; तद्विषयस्यैव तस्याशेषविषयतोपपत्तेः। ग्रहगत्यादयो हि देशकालजातीयविकल्पेन प्राणिनां श्रेयःप्रत्यवायोपनिपातपिशनतया प्रतीयमाना निःशेषानपि देशकालविशेषान् तन्निवासिनः त्रसस्थावराद्यनेकविकल्पान्
१ निरूपमेवञ्च ता०, प्रा०, ब० । २ "सूक्ष्माद्यर्थोपदेशो हि तत्साक्षात्कर्तृपूर्वकः । परोपदेशलिङ्गाज्ञानपेक्षावितथत्वतः ॥” -त० श्लो० पृ० ११ । ३ -त्वान्नापि प्रा०, ब०, प०। ४ 'असिद्धम्' इति
सम्बन्धः।
३८