________________
न्यायविनिश्चयविवरणे
[३।२६
यतोऽयं परमात्मा सकलावरणमलापगमे सति साक्षात्कृताशेषप्रपञ्चभुवनत्रयो जातः अत एव अस्मादेव हेतोः परमात्मानं च अनर्थः संसारदुःखैः तत्कारणैश्च रागादिभिः न योजयेत् । निरवशेषतत्त्वविषयविशुद्धज्ञानात्मनस्तत्र तद्वियोजनस्यैवोचितत्वात् । मा भूदात्मनि तद्योजनं परत्र भवत्येव क्रीडासुखार्थत्वादिति चेत्, न; क्रीडाया रागिधर्मत्वेन भगवत्यसम्भवात्, ५ नैसर्गिक-निरतिशयानन्दरूपतया तस्य तत्सुखनिरपेक्षत्वाच्च । - तन्न तत्सुखार्थत्वेन तत्र तद्यो
जनम् । कर्मप्रेरितत्वेनेति चेत्; न स्वकर्म तस्य तत्र प्रेरकम् ; तस्यानुग्रहपरस्यैव भावात् । परकर्मेति चेत्, न; तेनापि तस्याप्रेरणात् , प्रभुत्वव्यापत्तेः । कर्मण एव ततोऽपि प्रभुत्वमधिकमिति चेत् ; किमिदानीं तस्य तत्प्रेरणया अनर्थयोजनस्य तत एव सम्भवात् ! चेतनाधिष्ठितादेव ततस्तत्सम्भवो न
केवलादिति चेत् ; कथमिदानीं ततस्तत्प्रेरणम् ? तदपि तदधिष्ठितादेवेति चेत्, न; १० परस्पराश्रयात्
चेतनाधिष्ठितं कर्म प्रेरकं चेतनस्य तत् । चेतनस्तदधिष्ठाता भवेत् तत्प्रेरणादिति ॥ १७३४ ॥ कर्मान्तरप्रणुन्नस्य तस्याधिष्ठानतो यदि ।
कर्मान्तरेऽपि चिन्तेयमनवस्थाकरी भवेत् ॥ १७३५ ॥ तन्न कर्मणा तस्य प्रेरणम् । नाप्यपरेण प्रभुणा; तस्यैव तदधिकस्याभावात् । भावे तेन मुक्तात्मनामप्यनर्थकरणे किन्न प्रेरणम् ! "प्रभुर्यदेवेच्छति तत्करोति" [ ] इति न्यायात् । एवञ्च,
पुनरावृत्तिसद्भाने मुक्तानामपि तबलात् ।
मुक्तिकामितया न स्यादनुष्ठानं मनीषिणाम् ॥ १७३६ ॥
न तेषामसौ प्रेरको निमित्ताभावादिति चेत्, स्वस्ति तर्हि तत्प्राभवाय । निमित्तपारवश्ये २० तदनुपपत्तेः । ततः सूक्तम्-प्रभुः इत्यादि । कुतः पुनः प्रभोर्निरवशेषप्रपञ्चभुवनत्रयसाक्षात्करणमिति चेत् ? अत्राह
एवं यत्केवलज्ञानमनुमानविजृम्भितम् । नर्ते तदागमात् सिद्धयेत् [न च तेन विनाऽऽगमः] ॥ २६॥ इति ।
एवम् अनन्तरमुपवर्णितप्रकारं भगवतो यत्केवलज्ञानमनुमानेन पूर्वोक्तन वक्ष्यमाणेन २५ च विम्भितं निष्प्रत्यनीकं प्रवृत्तं तदागमात् आगममूलात् सम्यग्दर्शनाद्यभ्यासात् ऋते विना न सिद्ध्येत् न निष्पद्येत, तत एव निष्पद्यत इत्यर्थः ।
तदनेन माहेश्वरं तज्ज्ञानमनागमाभियोगपूर्वकमिति" प्रत्युक्तम् ; तथा हि-तदपि तत्पूर्वकं पुरुषातिशयत्वात् शास्त्रज्ञानपुरुषादितदतिशयवत् । तदविशेषेऽपि तत्प्रकर्षादिरेव तत्पूर्वको न तज्ज्ञानमिति
१ प्रागुक्तव्याप-आ०, ब०, ५०। २ कर्मणः । ३-पि येतद-आ०, ब०, ५०। ४ तत्प्रभावाय आ०, ब०प०। ५ नित्यशुद्धज्ञानवत्वान्महेश्वरस्य । ६ पुरुषातिशयस्वाविशेषेऽपि । ७ आगमाभ्यासपूर्वकः। माहेश्वरं ज्ञानम् ।