________________
२९५
३२५]
३ प्रवचनप्रस्तावः कर्मावरणविश्लेषस्तस्य ध्वस्तासतः' कथम् । येन सर्वार्थदर्शित्वं ततस्तस्योपवर्ण्यते ॥ १७२३ ॥ अनेका तस्य शक्तिश्चेदेकशः सर्ववेदिनि । तस्याः साकल्यविध्वंसे जीवध्वंसः पुनर्भवेत् ॥ १७२४ ॥ असाकल्येन विध्वंसे शक्त्याऽवस्थितया कथम् । सर्वार्थदर्शनं तस्य न स्यात् संसारवर्तिनः ॥ १७२५ ॥ प्रत्यर्थनियता शक्तिरनेका तस्य चेत्तया । अज्ञातया कथं तस्य सर्वार्थग्रहसम्भवः ॥ १७२६ ॥ ज्ञातत्वमपि तस्या न शक्त्या युक्तमनेकया अनवस्थायावेशस्यातिदूरोपसर्पणात् ॥ १७२७ ॥ एकया तत्परिज्ञाने शक्तिभेदे वृथा भवेत् । बाह्यस्याप्येकयैवार्थजातस्य प्रतिवेदनात् ॥१७२८ ॥ अत्र चोक्तमिदं जीवध्वंसनं सोपपत्तिकम् । इति ये चोदयन्त्यत्र तेऽपि न न्यायवेदिनः ॥ १७२९ ॥ तच्छत्तेर्बहुरूपायाः स्वत एव प्रवेदनात् । अनवस्थाभयोत्पत्तिप्रसङ्गाभावनिश्चितेः ॥१७३० ॥ ताभिरेव हि ताः शक्तीर्जीवो वेत्ति तदात्मकः ।। बाह्यानपि पदार्थोंघानिति हि प्रानिवेदितम् ॥ १७३१ ॥ तासां चाऽसकलध्वंसे जीवध्वंसः कथं भवेत् अध्वस्तशक्त्यवस्थस्य तस्याध्वंसोपपत्तितः ॥ १७३२ ॥ २० कथञ्चिज्जीवविध्वंसकल्पनं तु न दूषणम् ।
स्थित्युत्पत्तिविनाशात्मविश्वतत्त्वप्रवादिनाम् ॥ १७३३ ॥ ततो युक्तं जीवस्य ग्रहणशक्तिविध्वंसकरणमेव कर्मणां तत्प्रतिबन्धत्वमिति । न चैवं तेषां दर्शनप्रसङ्गः विषयवत् तत्रापि तैरेव तच्छतः प्रतिबन्धनात् । भवत्वेवं तथाऽपि यथा परिगलितनिखिलजलधरपटलपरिवेष्टनस्यापि भानुमतः पुनः कुतश्चित् तदुपलेपसम्भवः तथा निरवशेषनिधूत- २५ बोधावरणमलस्यापि केवलिनः पुनः कुतश्चित्तदभिसम्बन्धसम्भवात् अनर्थोपनिबन्धः किन्न भवतीति चेत् ? अत्राह--
प्रभुः साक्षात्कृताशेषप्रपश्चभुवनत्रयः।
अनर्थः परमात्मानमत एव न योजयेत् ॥ २५ ॥ इति ।
१ ध्वस्तत्वेन असतः अविद्यमानस्य जीवस्य । २ अनेकान्तस्य आ०, ब०, ५०। ३-कतः स-आ०, ब०, प०। ४-भयादेश-आ०, ब०, ५०। ५ ध्वंसाध्वंसोपपत्तितः आ०, ब०, प० । ६-च सकल-आ०, ब०, प०।