________________
न्यायविनिश्चयविवरणे
[३२३-२४ विनाऽपि तस्मादत्रेद मिति हेतोर्व्यवस्थिते (तौ)। न च तस्याः परं किञ्चित् समवायप्रयोजनम् ॥१७१८॥ तस्मादिहेदम्भावस्य समवानिमित्तताम् । ब्रुवता व्योम्नि चैतन्यं जीववत् परिकल्प्यताम् ॥१७१९॥ अदृष्टाभावतस्तत्र संसारो नास्ति चेदसत् । चेतनावददृष्टस्य समवायादवस्थिते ॥१७२०॥ सत्यप्येवं स्वतस्तस्याचेतनत्वादसंसृतौ।
स्वतश्चैतन्यमायातं जीवे संसारिणि स्फुटम् ॥१७२१॥ स तर्हि कस्मात् सर्वतो न प्रकाशते सर्वविषयतयेति चेत् ? अत्राह
मलैरिव मणिर्विद्धः कर्मभिर्न प्रकाशते ॥२३॥ इति ।
यथा समन्ततः प्रकाशात्माऽपि जात्यो मणिः मलै रजः-कर्दमादिभिः विद्धो न प्रकाशते तथा जीवोऽपि कर्मभिरावरणापग्नामधेयैविद्धः परस्परप्रदेशानुगमप्रबन्धेन बद्धो न प्रकाशते । यदा तु तदावरणमलानां तदुपादानकारणप्रत्यनीकात् उपायाभियोगात् निःशेषवृत्त्या जीवतो विश्लेषस्तदा प्रकाशत एवासौ समन्ततः सर्वार्थसाक्षात्करणरूपतया च । तदुक्तम्
"ज्ञो ज्ञेये कथमज्ञः स्यादसति प्रतिबद्धरि ।
दाह्येऽग्निर्दाहको न स्यादसति प्रतिबद्धरि ॥' [ योगबि० श्लो० ४३१] तदेवाह--
सर्वार्थग्रहसामर्थ्यचैतन्यप्रतिबन्धिनाम् । कर्मणां विगमे कस्मात् सर्वानर्थान्न पश्यति ॥ २४ ॥ इति ।
जीवः सर्वानान कस्मान्न पश्यति पश्यत्येव । कदा ? विगमे निःशेषविश्लेषे । केषाम् ? कर्मणाम् आवरणमलानाम् । कीदृशानाम् ! सर्वो निरवशेषो योऽर्थों देशादिविप्रकृष्टस्तस्य ग्रहः परिज्ञानं तत्र समर्थमेव सामर्थ्य तच्च तच्चैतन्यं च तत्प्रतिबदन्तीत्येवं शीलानामिति । कः पुनरयं तैस्तस्य प्रतिबन्धो नाम ? पटवत् विषयप्रच्छादनमिति चेत् ; ततः कथ
महणं विषयस्य ? तदापि विप्रकृष्टग्रहणस्य तत्स्वभावस्यापरिम्लानात् तेषाञ्च दर्शनप्रसङ्गः पटवत् । २५ असामर्थ्यान्नेति चेत ; न; वेदनसमर्थप्रतिज्ञाव्यापत्तेः । आवरणान्तरैः प्रतिब-धान्नेति चेत; न; तत्राप्येवं प्रसङ्गादनवस्थापत्तेश्च । तन्न तत्प्रच्छादनं प्रतिबन्धः । शक्तिप्रध्वंस इति चेत् ; उच्यते
एकैव ज्ञानशक्तिश्चेत् सा च तैर्ध्वस्यते यदि। जीव एव भवेद् ध्वस्तस्तदा गत्यन्तरच्युतेः ॥१७२२॥
२०
१ आकाशस्य । २ उद्धृतोऽयम्-अष्टसह० पृ०५०। जयध० पृ०६६। ध० आ०प०५५३ । ३ कर्मणाम् ।